This page has not been fully proofread.

द्वितीयाश्वासः
 
आसाद्य दानवकुलानि दिवौकसो नः
चक्रे पदं कृपणमानवदुर्दशानाम् ॥ १५ ॥
अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममर्त्यानामपहृते तस्मिन्न-
सुरैः, असम्भाविते च यादाकादाचित्के दाने द्विजन्मनाम्, अशिक्षिते च
मौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौवर्गराज्यसिसाधयिषाम्,
अपहाय दिव्यभोगेषु कौतूहलम्, अन्नायैव स्पृहयमाणा निरन्तरम्,
अनिमिषतया श्रमावर्जितमूर्च्छास्स्वापमप्यलभमानाः, सुलभमाना
अनेनैव मुनिना निर्वासिता निष्कासिता सुरलोकस्य लक्ष्मीः सम्पत् कर्त्री ।
'लक्ष्मीस्सम्पद्रमा शोभा' इति नानार्थरत्नमाला । दानवानां कुलानि सदनानि ।
'गेहे देशे जनपदे सजातीयगुणेऽन्वये । कुलम्' इति नानार्थरत्नमाला ।
आसाद्य प्राप्य, दिवौकसः स्वर्गवासिनः अस्मान्, कृपणाः क्षुद्राः ये मानवाः
मनुष्याः तेषां याः दुर्दशा दुरवस्थाः तासां पदं भाजनं चक्रे कृतवती ।
गतश्रीणामस्माकं म्लानता कथं न स्यादिति भावः ।
एतदारभ्य वक्तव्यं
मुख्यमंशमाह ॥ अथेति ॥ अथ कार्येनेत्यर्थः । 'मङ्गळानन्तरारम्भप्रश्न-
कार्येष्वथो अथ' इत्यमरः । भवतैव अमर्त्यानां देवानां यत् अध्वरेषु यागेषु
यानि हवींषि तैः जीवनं कल्पितं निर्दिष्ट तस्मिन् हविर्लक्षणजीवने असुरैरपहृते
सति बलहीते सति यथाकथञ्चित् कृच्छ्रेणापीत्यर्थ: । द्विजन्मनां द्विजसम्ब-
न्विनीत्यर्थ: । सम्बन्धसामान्ये षष्ठी। दाने, असम्भाविते अतर्किते सति ।
भूमौ भवाः भौमाः भूलोकवासिनः तैस्तुल्यं भौमवत् । अन्नस्य साधनं सम्पादनं
तस्य व्यसनं उद्योगः तस्मिन् । भवतः, प्रसादादनुग्रहात् अशिक्षिते अनभ्यस्ते
सति । स्वर्गस्येदं सौवर्ग स्वर्गसम्बन्धि यद्राज्यं राज्ञः कर्म भावो वा तस्य
सिसाघयिषां साधयितुमिच्छाम् अवधूय । दिव्यभोगेषु दिव्यसुखेषु । 'भोगस्सुखे
स्व्यादिभृतौ' इत्यमरः । कौतूहलं उत्कण्ठाम् अवधूय विध्य निरन्तरं सर्वदा
अन्नायैव स्पृहयमाणा: इच्छमानास्सन्तः । अविद्यमानाः निमिषाः निमेषाः येषां
तेषां भावः तया अनिमिषतया श्रमेणायासेन आवर्जिता सम्पादिता या मूर्च्छा
अवस्थाविशेषः येषां ते तथा । स्वापमपि निद्रामपि अलभमानाः सन्तः सुलभो
 
a. 'अपहाय' इति मूलपाठः ।
N— 18
 
१३७