2023-09-10 07:36:03 by Bharadwajraki
This page has been fully proofread twice.
अथाप्यनुयोगाज्ञानिर्वर्तनाय किञ्चिदावेद्यते । योऽसावग्रतो भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणाम्, अधितिष्ठति शमवतामग्रासनं दुर्वासाः,[^१] अयमेव सर्वासां निदानमस्मदापदाम् ।
अव्याजकोपनिधिना मुनिनाऽमुनैव
निर्वासिता सुरपतेस्सुरलोकलक्ष्मीः ।
[commentary]
'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । तस्य कथा सन्दर्भः सैव सुधा अमृतं तया भरितयोः पूरितयोः भवतः कर्णयोः श्रोत्रयोः, मिथ्याज्ञानं मिथ्याभूतपदार्थविषयकं ज्ञानं तेन विजृम्भितानि आरब्धानि । अथवा, मिथ्याज्ञानस्य विपर्ययात्मकज्ञानस्य विजृम्भितानि विलसितानि तत्स्वरूपाणीति यावत् । नः अस्माकं विचेष्टितानि व्यापारान् सेक्तुं सेचयितुं श्रावयितुमिति यावत् । जिह्वा रसनैव जिह्रेति लज्जते । लज्जया न प्रवर्तत इति भावः । पाकशासनः किमर्थं परिम्लान इव लक्ष्यत इत्यस्योत्तरमाह ॥ अथापीति ॥ अथापि तदपि अनुयोगः प्रश्नः स एवाज्ञा भवच्छासनं तस्य निर्वर्तनाय करणाय किञ्चित् स्वल्पं आवेद्यते विज्ञाप्यते । भवतः अग्रतः पुरतः करुणायाः कृपायाः परिणामः विकार इव स्थितः ।
'परिणामो विकारे द्वे समे विकृतिविक्रिये' इत्यमरः । शमः अन्तरिन्द्रियनिग्रहः दमः बहिरिन्द्रियनिग्रहः । 'शमथस्तु शमश्शान्तिः दान्तिस्तु दमथो दमः' इत्यमरः । उपरमः विधिवदनुष्ठितकर्मणां परमेश्वरे समर्पणम् । तेषां परिपाकः सारांश इव । शमः एषामस्तीति शमवन्तः तेषां निर्धारणे षष्ठी । योऽसौ अग्रासनं अग्रासने अधितिष्ठति अध्यास्ते । 'अधिशीङ्स्थासां कर्म' (१.४.४६) इत्याधारस्य कर्मत्वम् । अयं दुर्वासा एव सर्वासां अस्मदस्माकं आपदां, निदानं कारणम् । 'निदानं त्वादिकारणम्' इत्यमरः । लोकानुरोधेनेव स्वापराधमप्रकटीकृत्य दुर्वासस्येवापराधमारोप्य तदग्रे प्रोवाचेत्याह ॥ अव्याजेति ॥ अविद्यमानः व्याजो निमित्तं यस्य सः तथा स चासौ कोपश्चेति कर्मधारयः । तस्य निधिना स्थानभूतेन अमुना
[^१] युधिष्ठिरशब्दः युद्धलेशमप्यसम्मन्यमाने अजातशत्रौ यथा अध्यात्मारियुद्धे स्थिरः इति निर्वक्तव्यः, तथा आनन्दघने ब्रह्मभवने ब्रह्मसमीपे निवसतो मुनेः दुर्वासश्शब्दः, दुःखस्य-वासः- आच्छादनम्, स्वस्याश्रितानां च यत्रेति निर्वचनेनान्वर्थो ज्ञेयः ॥