This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
अथाप्यनुयोगाज्ञानिर्वर्तनाय
 
किञ्चिदावेद्यते । योऽसावग्रतो
 
भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणाम्,
अधितिष्ठति शमवतामग्रासनं दुर्वासाः,'[^१] अयमेव सर्वासां निदानम-
स्मदापदाम् ।
 

 
अव्याजकोपनिधिना मुनिनाऽमुनैव

निर्वासिता सुरपतेस्सुरलोकलक्ष्मीः ।
 

 
[commentary]
 
'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । तस्य कथा सन्दर्भः सैव सुधा अमृतं तया
भरितयोः पूरितयोः भवतः कर्णयोः श्रोत्रयोः, मिथ्याज्ञानं मिथ्याभूतपदार्थविषयकं
ज्ञानं तेन विजृम्भितानि आरब्धानि । अथवा, मिथ्याज्ञानस्य विपर्ययात्मकज्ञानस्य
विजृम्भितानि विलसितानि तत्स्वरूपाणीति यावत् । नः अस्माकं विचेष्टितानि
व्यापारान् सेक्तुं सेचयितुं श्रावयितुमिति यावत् । जिह्वा रसनैव जिह्वेरेति लज्जते ।
लज्जया न प्रवर्तत इति भावः । पाकशासनः किमर्थं परिम्लान इव लक्ष्यत
इत्यस्योत्तरमाह ॥ अथापीति ॥ अथापि तदपि अनुयोगः प्रश्नः स एवाज्ञा
भवच्छासनं तस्य निर्वर्तनाय करणाय किञ्चित् स्वल्पं आवेद्यते विज्ञाप्यते ।
भवतः अग्रतः पुरतः करुणायाः कृपाया:याः परिणाम:मः विकार इव स्थितः ।

'परिणामो विकारे द्वे समे विकृतिविकिक्रिये' इत्यमरः । शमः अन्तरिन्द्रियनिग्रहः
दमः बहिरिन्द्रियनिग्रहः । 'शमथस्तु शमश्शान्तिः दान्तिस्तु दमथो दम:मः'
इत्यमरः । उपरमः विधिवदनुष्ठितकर्मणां परमेश्वरे समर्पणम् । तेषां परिपाक:
कः सारांश इव । शमः एषामस्तीति शमवन्तः तेषां निर्धारणे षष्ठी । योऽसौ अग्रासनं
अग्रासने अघिधितिष्ठति अध्यास्ते । 'अधिशीङ्स्थासां कर्म' (1-4-46१.४.४६) इत्याधारस्य
कर्मत्वम् । अयं दुर्वासा एव सर्वासां अस्मदस्माकं आपदां, निदानं कारणम् । 'निदानं
त्वादिकारणम्' इत्यमरःलोकानुरोधेनेव स्वापराधमप्रकटीकृत्य दुर्वासस्येवापराध-
मारोप्य तदमेग्रे प्रोवाचेत्याह ॥ अव्याजेति ॥ अविद्यमानः व्याजो निमित्तं यस्य
सः तथा स चासौ कोपश्चेति कर्मधारयः । तस्य निधिना स्थानभूतेन अमुना
 
1.

 
[^१]
युधिष्ठिरशब्दः युद्धलेशमप्यसम्मन्यमाने अजातशत्रौ यथा अध्यात्मारियुद्धे
स्थिरः इति निर्वक्तव्यः, तथा आनन्दघने ब्रह्मभवने ब्रह्मसमीपे निवसतो मुनेः दुर्वास-
श्शब्दः, दुःखस्य-वास:सः- आच्छादनम्, स्वस्याश्रितानां च यत्रेति निर्वचनेनान्वर्थो ज्ञेयः ॥