This page has been fully proofread twice.

किञ्च ।
 
यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारङ्गतं
प्रत्यग्ज्योतिरनुत्तरं शमधनैरालोच्यमेतादृशैः ।
तत्सम्प्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयोः
मिथ्याज्ञानविचेष्टितानि बलवज्जिह्रेति जिह्वैव नः ॥ १४॥
 
[commentary]
 
विसस्मरुः । अध्यात्मशास्त्रश्रवणकथनैकतत्परं भवन्तं प्रत्यस्मदीयां दशां निवेदयितुं लज्जया रसना न प्रवर्तत इत्याशयेनाह ॥ यदिति ॥ अस्तमिति ॥ स्मृतिगोचरीभूतमपि न भवतीति भावः । मान्तो निपातो अदर्शनार्थकः अत्र प्रतीत्युपसर्गपूर्वस्सन् वर्तते । तथा च प्रत्यस्तं अदर्शनं लयमिति यावत् । इतः प्राप्तः प्रपञ्चः स्थावरात्मकजगतां विस्तृतिः स्तोमो वा यस्मिन् तत् । 'प्रपञ्चो विस्तृतौ स्तोमे' इति नानार्थरत्नमाला । विलीनप्रपञ्चाधिकरणमिति पर्यवसितार्थः । अत्रार्थे प्रमाणंतु -- 'यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतिः । अखिलानां समस्तानां व्यापाराणां सात्त्विकराजसतामसक्रियाणां पारं तटम् । 'पारी पात्र्यां तटे पारम्' इति नानार्थरत्नमाला । गतं प्राप्तं सर्वत्र क्रियासाक्षित्वेन उदासीनमिति भावः । 'साक्षी चेता केवलो निर्गुणश्च' इति श्रुतेः । यद्वा अखिलानां समस्तानां व्यापाराणां सृष्टिस्थितिलयस्वरूपाणां पारङ्गतः पारीण समर्थ इति यावत् । सहायमन्तरा सर्वं कार्यं लीलयैव निर्वहतीति भावः । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेः । अथवा, अखिलानां समस्तव्यापाराणां लौकिकवैदिकक्रियाणां पारं परिसमाप्ति मित्यर्थः । 'पार तीर कर्मसमाप्तौ' इति धातुः । गतं प्राप्तं, तत्र गतानां कर्तव्यं नास्तीति भावः । आहोस्वित्, प्रत्यक्षादिप्रमाणानां व्यापाराः व्यापृतयः प्रवृत्तय इति यावत् । तेषां पारमवसानं गतं प्राप्तं अप्रमेयत्वात्तस्येति भावः । अथवा शास्त्रपारङ्गत इति वाक्यस्य यथा कृत्स्नशास्त्रद्रष्टेत्यर्थः, तथा अखिलव्यापारपारङ्गतमित्यस्यापि निखिलकर्मद्रष्ट्रित्यर्थः । एतादृशैः एवंविधैः शमः अन्तरिन्द्रियनिग्रहः धनं येषां तैः आलोच्य आलोचनीयमिति यावत् । अविद्यमानं उत्तरं उत्तमं यस्मात्तत् । 'प्रतिवाच्युत्तरं ना तु विराटतनयेऽनले । त्रिषूदीच्योत्तमारेषु' इति नानार्थरत्नमाला । सर्वोत्तममिति पर्यवसितार्थः । ज्योतिः स्वयम्प्रकाशः तत्प्रत्यक् यद्ब्रह्मास्ति तस्य परब्रह्मणः सम्प्रश्नः स्वरूपजिज्ञासयानुयोगः ।