2023-07-28 08:46:13 by Bharadwajraki
This page has been fully proofread once and needs a second look.
किञ्च ।
द्वितीयाश्वासः
यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारङ्गतं
प्रत्यग्ज्योतिरनुत्तरं शमधनैरालोच्यमेतादृशैः ।
तत्सम्प्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयोः
मिथ्याज्ञानविचेष्टितानि बलवज्जिहेह्रेति जिह्रैवैव नः ॥ १४॥
―
:
[commentary]
विसस्मरुः । अध्यात्मशास्त्रश्रवणकथनैकतत्परं भवन्तं प्रत्यस्मदीयां दशां निवेदयितुं
लज्जया रसना न प्रवर्तत इत्याशयेनाह ॥ यदिति ॥ अस्तमिति ॥ स्मृतिगोचरी-
भूतमपि न भवतीति भावः । मान्तो निपातो अदर्शनार्थकः अत्र प्रतीत्युपसर्ग-
पूर्वस्सन् वर्तते । तथा च प्रत्यस्तं अदर्शनं लयमिति यावत् । इतः प्राप्तः प्रपञ्चः
स्थावरात्मकजगतां विस्तृतिः स्तोमो वा यस्मिन् तत् । 'प्रपञ्चो विस्तृतौ स्तोमे
' इति नानार्थरत्नमाला । विलीनप्रपञ्चाधिकरणमिति पर्यवसितार्थः । अत्रार्थे
प्रमाणंतु –-- 'यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतिः । अखिलानां समस्तानां व्यापाराणां
सात्त्विकराजसतामसक्रियाणां पारं तटम् । 'पारी पात्र्यां तटे पारम्' इति
नानार्थरत्नमाला । गतं प्राप्तं सर्वत्र क्रियासाक्षित्वेन उदासीनमिति भावः । 'साक्षी
चेता केवलो निर्गुणश्च' इति श्रुतेः । यद्वा अखिलानां समस्तानां व्यापाराणां
सृष्टिस्थितिलयस्वरूपाणां पारङ्गतः पारीण समर्थ इति यावत् । सहायमन्तरा सर्व
वं कार्यं लील्लयैव निर्वहतीति भावः । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेः ।
अथवा, अखिलानां समस्तव्यापाराणां लौकिकवैदिकक्रियाणां पारं परिसमाप्ति -
मित्यर्थ:थः । 'पार तीर कर्मसमाप्तौ' इति धातुः । गतं प्राप्तं, तत्र गतानां कर्तव्यं
नास्तीति भावः । आहोस्वित्, प्रत्यक्षादिप्रमाणानां व्यापाराः व्यापृतयः प्रवृत्तय इति
यावत् । तेषां पारमवसानं गतं प्राप्तं अप्रमेयत्वात्तस्येति भावः । अथवा शास्त्र -
पारङ्गत इति वाक्यस्य यथा कृत्स्नशास्त्रद्रष्टेत्यर्थः, तथा अखिलव्यापारपारङ्गतमि-
त्यस्यापि निखिलकर्मद्रष्ट्रित्यर्थः । एतादृशैः एवंविधैः शमः अन्तरिन्द्रियनिग्रहः
धननं येषां तैः आलोच्य आलोचनीयमिति यावत् । अविद्यमानं उत्तरं उत्तमं
यस्मात्तत् । 'प्रतिवाच्युत्तरं ना तु विराटतनयेऽनले । त्रिषूदीच्योत्तमारेषु' इति
नानार्थरत्नमाला । सर्वोत्तममिति पर्यवसितार्थः । ज्योतिः स्वयम्प्रकाशः
स तत्प्रत्यक् यद्ब्रह्मास्ति तस्य परब्रह्मणः सम्प्रश्नः स्वरूपजिज्ञासयानुयोगः ।
द्वितीयाश्वासः
यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारङ्गतं
प्रत्यग्ज्योतिरनुत्तरं शमधनैरालोच्यमेतादृशैः ।
तत्सम्प्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयोः
मिथ्याज्ञानविचेष्टितानि बलवज्जि
―
:
[commentary]
विसस्मरुः । अध्यात्मशास्त्रश्रवणकथनैकतत्परं भवन्तं प्रत्यस्मदीयां दशां निवेदयितुं
स