This page has been fully proofread twice.

चातुर्यं कथमीदृगित्यपगता शङ्का समस्तापि नः
चातुर्यं भक्तो भुजेष्वपि मुखेष्वद्य स्वयं पश्यताम्’ ॥ १२ ॥
 
इति । स च ततः 'साधु वत्स साधु स्थाने किल छन्दोगाः बृहती वाक् तस्याः पतिर्बृहस्पतिरिति नाम ते निराहुः’ इति प्रशस्य 'परिम्लान इव लक्ष्यते कुतः पाकशासनः' इति पृच्छति सानुकम्पमम्भोजसम्भवे,
बृहस्पतिः पुनरिदमभाषत ।
 
'परिम्लाना दीनाश्चिरपरिहृतस्वस्वभवनाः
चरन्तः पादाभ्यामवनिवलये भिक्षव इव ।
यदाख्यातुं दुःखं तव सविधमेते परिगताः
तदद्य व्यस्मार्षुः पदमिदमुपेता वितिमिरम् ॥ १३ ॥
 
[commentary]
 
निर्गता । आसीदिति शेषः । ब्रह्मापि बृहस्पतिं नामनिर्वचनपूर्वकं जगादेत्याह ॥ इतीति ॥ ततः हे वत्स ? छन्दांसि सामानि गायन्तीति छन्दोगास्सामगाः बृहस्पतिशब्दे बृहत्याः पतिः बृहस्पतिरिति विगृह्य तत्र बृहतीशब्दस्य[^१] वागर्थः तस्याः पतिः अधिपतिरिति ते नाम निराहुः किल निर्वचनं कुर्वन्तीत्येतत् स्थाने साधु साधु इत्यन्वयः । 'वाग्धि बृहती तस्या एष पतिर्बृहस्पतिः' इति छन्दोगश्रुतिः ॥ इतीति ॥ इति इत्थं प्रशस्य प्रश्लाघ्य पाकशासनः इन्द्रः कुतो हेतोः परिम्लान इव गतहर्ष इव लक्ष्यते परिदृश्यत इति अम्भोजसम्भवे कमलासने सानुकम्पं सदयं यथा तथा पृच्छति प्रश्नं कुर्वति सति बृहस्पतिः पुनरिदमभाषत उवाच । कथनप्रकारमेवाह ॥ परीति ॥ परिम्लानाः गतहर्षाः चिरात्प्रभृति परित्यक्तानि स्वस्वानि भवनानि यैस्तथाभूताः अत एव दीनाः दरिद्राः अवनिवलये
भूमण्डले भिक्षव इव संन्यासिन इव पादाभ्यां चरन्तः एते देवाः यद्दु:खं आख्यातुं वक्तुं तव सविधं अन्तिकं, परिगताः प्राप्ताः बभूवुः, अद्य, वितिमिरं अज्ञानलक्षणतमोरहितं इदं पदं स्थानं उपेताः उपगतास्सन्तः तद्दुःखं व्यस्मार्षुः
 
[^१] "तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च" (ग. सू. ६.१.१५७) इत्यनेन सुटि तलोपे बृहस्पतिशब्दं निराह । पाणिनिरपि ॥