2023-09-10 06:52:51 by Bharadwajraki
This page has been fully proofread twice.
'अगन्तव्यं तर्कैरनधिगमनीयंa क्रतुशतैः
अनासाद्यं दानैरनुपसरणीयं च तपसा ।
भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां
कृतार्था जातास्स्मः पुनरपि कृतार्थाः पुनरपि ॥ ११ ॥
किञ्च ।
भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया
यच्च व्याकुरुषे निरन्तरमिमाः साङ्गाश्चतस्रश्श्रुतीः ।
[commentary]
प्रणवं ओङ्कारं अनुस्मरन् ओङ्कारस्य[^१] मङ्गळकरत्वादिति भावः । तत्तदागमेषु वेदेषु उदितानि उक्तानि ब्रह्मप्रतिपादकानि सूक्तानि 'हिरण्यगर्भस्समवर्तताग्रे' इत्यादीनि आवर्तयन् जपन् भक्तिभरेण प्रागेव नम्रोऽपि अमरैस्सह शतशः प्रणम्य नमस्कारं कृत्वा । देवदेवस्य ब्रह्मणः प्रसादात् अनुग्रहादेव एवं वक्ष्यमाणप्रकारेण किञ्चिदभिधातुं वक्तुं प्रारभत उपाक्रमत । उक्तप्रकारमेवाह ॥ अगन्तव्यमिति ॥ तर्कैः श्रुत्यनुमतैः युक्तिभिः अगन्तव्यम् अप्राप्यं, क्रतूनां शतैरनेकैरपि अनधिगन्तव्यं दुर्लभमित्यर्थः । दानैरनासाद्यं आसादयितुमशक्यं तपसा अनशनव्रतेन अनुपसरणीयं गन्तुमशक्यमित्यर्थः । प्रणमतां नमनं कुर्वतां शुचं शोकमभिभवन्तं नाशयन्तमित्यर्थः । एवंविधं भवन्तं पश्यन्तः वयं कृतार्थाः लब्धप्रयोजना जाताः सम्पन्नाः स्मः भक्त्यतिशयद्योतनाय त्रिरुक्तिः । ब्रह्माणं स्तौति ॥ भूतेति ॥ चतस्रः विधाः प्रकाराः यस्य स तथाभूतम् । 'विधा विधौ प्रकारे च' इत्यमरः । इमं भूतानां जरायुजाण्डजस्वेदजोद्भिज्जलक्षणानां प्राणिनां ग्रामं समूहं, लीलया अनायासेन निर्मासि निर्माणं करोषीति यत् निरन्तरं सर्वदा साङ्गाः शिक्षाद्यङ्गसहिताः इमाः चतस्रः श्रुतीः ऋग्यजुस्सामाथर्वणलक्षणान्वेदान् व्याकुरुषे विविच्य ब्रूषे इति यत् तच्चातुर्यं भवतः भुजेषु मुखेषु च अद्य स्वयं पश्यतां नः ईदृक्चातुर्यं तस्य कथमिति समस्तापि शङ्का सन्देहः अपगता
a. 'अनधिगमनीयम्' इति मूलपाठः । 'अनधिगन्तव्यम्' इति व्याख्यापाठः ।
[^१] "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मात् माङ्गलिकावुभौ" इति शास्त्रानुसारं मङ्गलपाठसमये "ओमथ, ओमथ, ओमथ" इति त्रिरुच्चारणं सम्प्रदायसिद्धं स्मारयति ॥