This page has not been fully proofread.

द्वितीयाभ्वासः
 
१३३
 
'अगन्तव्यं तर्कैरनधिगमनीयं ऋतुशतैः
अनासाद्यं दानैरनुपसरणीयं च तपसा ।
भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां
 
कृतार्था जातास्स्मः पुनरपि कृतार्थाः पुनरपि ॥ ११ ॥
 
किञ्च ।
 
भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया
यच्च व्याकुरुषे निरन्तरमिमाः साङ्गाश्वतत्र श्रुतीः ।
 
प्रणवं ओङ्कारं अनुस्मरन् ओकारस्य मङ्गळकरत्वादिति भावः । तत्तदागमेषु
वेदेषु उदितानि उक्तानि ब्रह्मप्रतिपादकानि सूक्तानि 'हिरण्यगर्भस्समवर्तताग्रे '
इत्यादीनि आवर्तयन् जपन् भक्तिभरेण प्रागेव नम्रोऽपि अमरैस्सह शतशः प्रणम्य
नमस्कारं कृत्वा । देवदेवस्य ब्रह्मणः प्रसादात् अनुग्रहादेव एवं वक्ष्यमाण-
प्रकारेण किञ्चिदभिधातुं वक्तुं प्रारभत उपाक्रमत । उक्तप्रकारमेवाह ॥ अग-
न्तव्यमिति ॥ तर्कैः श्रुत्यनुमतैः युक्तिभिः अगन्तव्यम् अप्राप्यं, ऋतूनां
शतैरनेकैरपि अनधिगन्तव्यं दुर्लभमित्यर्थः । दानैरनासायं आसादयितुमशक्यं
तपसा अनशनवतेन अनुपसरणीय गन्तुमशक्यमित्यर्थः । प्रणमतां नमनं कुर्वतां
शुचं शोकमभिभवन्तं नाशयन्तमित्यर्थः । एवंविधं भवन्तं पश्यन्तः वयं कृतार्थाः
लब्धप्रयोजना जाता: सम्पन्नाः स्मः भक्त्यतिशयद्योतनाय त्रिरुक्तिः । ब्रह्माणं
स्तौति ॥ भूतेति ॥ चतस्रः विधाः प्रकाराः यस्य स तथाभूतम् । 'विधा विधौ
प्रकारे च' इत्यमरः । इमं भूतानां जरायुजाण्डजस्वेदजोद्भिज्जलक्षणानां प्राणिनां
ग्रामं समूहं, लीलया अनायासेन निर्मासि निर्माण करोषीति यत् निरन्तरं सर्वदा
साङ्गाः शिक्षाद्यङ्गसहिताः इमा: चतस्रः श्रुती: ऋग्यजुस्सामाथर्वणलक्षणान्
वेदान् व्याकुरुषे विविच्य ब्रूषे इति यत् तचातुर्यं भवतः भुजेषु मुखेषु च अद्य
स्वयं पश्यतां नः ईदृक्चातुर्य तस्य कथमिति समस्तापि शङ्का सन्देहः अपगता
 
a. 'अनधिगमनीयम्' इति मूलपाठः । 'अनधिगन्तव्यम्' इति व्याख्यापाठः ।
1. "ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मात्
माङ्गलिकावुभौ " इति शास्त्रानुसारं मङ्गलपाठसमये "ओमथ, ओमथ, ओमथ " इति
त्रिरुच्चारणं सम्प्रदाय सद्धं स्मारयति ॥