2023-09-10 06:47:39 by Bharadwajraki
This page has been fully proofread twice.
अत्यद्भुतसभासभानाथसन्दर्शनजडीकृतो वाचस्पतिरपि भगवान् वाग्देवतावलोकनसम्पन्नभयकम्पसम्भ्रमस्तम्भितवाङ्मुखः क्षणमवाङ्मुखश्च तदीयदिव्यतेजःप्रतिहतदृष्टितया यावदास्त स्तब्ध इव, तावदनुग्रहमय्या दृशा जगन्निधेः, आगच्छ वत्सेत्यमृतासारकिरा गिरा च गिरां देव्या निर्व्याजमाप्यायितः, समाधाय कथञ्चिदान्तरं करणम्,
अनुस्मरन् प्रणवम्, आवर्तयन् ब्रह्ममुसूक्तानि तत्तदागमोदितानि, प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव देवदेवस्य प्रारभत किञ्चिदेवमभिधातुम् ।
[Ccommentary]
नियमस्य प्रायिकत्वेनायं समासस्साधुरेवेति बोध्यम् । भूतानां अण्डजजरायुजस्वेदजोद्भिज्जलक्षणानां प्राणिनां ग्रामस्य बृन्दस्य । 'क्कीबे भूतं पिशाचादौ भूम्यादौ जन्तुसत्त्वयोः' इति नानार्थरत्नमाला । 'ग्रामHमः पल्ल्यां स्वरे बृन्दे' इति विश्वः । समष्टिं समष्ट्यभिमानिनम् । वृक्षाणां समष्टिर्यथा वनमित्युच्यते तथा भूतानां समष्टिर्हिरण्यगर्भ इत्युच्यत इति भावः । अखिललोकस्य अखिलभुवनस्य अखिलजनस्य वा साधारणं समानं पितरं, विद्यानां उपासनानां, यानि फलानि तेषां विश्रान्तिभूमिं विश्रमस्थानं, वाग्विभूतीनां वाक्सम्पदां, विरामपदं अवसानस्थानम् । ततः परतरं तुरीयं वक्तुं वाचो न
प्रभवन्तीति भावः । दुराशयानां कलुषितचित्तानां, दूरं गन्तुमशक्यमिति भावः । आत्मवेदिनां ब्रह्मज्ञानिनां अदूरं सुगममिति भावः । भगवन्तं पूज्यतमं पितामहं ब्रह्माणम् अधिगम्य प्राप्य, अत्यद्भुतयोरत्याश्चर्ययोस्सभासभानाथयोस्सन्दर्शनेन अवलोकनेन, जडीकृतः स्तब्धः कृतः भगवान्वाचस्पतिरपि वाग्देवताया, अवलोकनेन दर्शनेन, सम्पन्नैः, भयकम्पसम्भ्रमैः भीतिवेपथुचापलैः, स्तम्भिता निरुद्धा वाग्यस्य तत्तथाभूतं मुखं यस्य स तथाभूतः । तदीयेन ब्रह्मसरस्वतीसम्बन्धिना तेजसा प्रतिहते सन्ताडिते दृष्टी यस्य तस्य भावस्तत्ता तया क्षणमवाङ्मुखः
अधोमुखः, विनमितशिरस्क इति यावत् । स्तब्धः मूढ इव यावदास्त अवर्तत च तावदेव जगन्निधेः ब्रह्मणः अनुग्रहमय्या प्रसादरूपया प्रचुरानुग्रहवत्येत्यर्थ:थः । दृशा अमृतस्य सुधाया आसारान् धारासम्पातान् किरतीति कीः । तथाविधया गिरां देव्याः वत्सागच्छेति गिरा वाचा च निर्व्याजं यथा तथा आप्यायितः परितोषितस्सन् आन्तरं करणं चित्तमित्यर्थः । कथञ्चित्कृच्छ्रेण समाधाय अभ्रान्तं कृत्वा ।
अनुस्मरन् प्रणवम्, आवर्तयन् ब्रह्म
[
नियमस्य प्रायिकत्वेनायं समासस्साधुरेवेति बोध्यम् । भूतानां अण्डजजरायुजस्वेदजोद्भिज्जलक्षणानां प्राणिनां ग्रामस्य बृन्दस्य । 'क्कीबे भूतं पिशाचादौ भूम्यादौ जन्तुसत्त्वयोः' इति नानार्थरत्नमाला । 'ग्रा
प्रभवन्तीति भावः । दुराशयानां कलुषितचित्तानां, दूरं गन्तुमशक्यमिति भावः । आत्मवेदिनां ब्रह्मज्ञानिनां अदूरं सुगममिति भावः । भगवन्तं पूज्यतमं पितामहं ब्रह्माणम् अधिगम्य प्राप्य, अत्यद्भुतयोरत्याश्चर्ययोस्सभासभानाथयोस्सन्दर्शनेन अवलोकनेन, जडीकृतः स्तब्धः कृतः भगवान्वाचस्पतिरपि वाग्देवताया, अवलोकनेन दर्शनेन, सम्पन्नैः, भयकम्पसम्भ्रमैः भीतिवेपथुचापलैः, स्तम्भिता निरुद्धा वाग्यस्य तत्तथाभूतं मुखं यस्य स तथाभूतः । तदीयेन ब्रह्मसरस्वतीसम्बन्धिना तेजसा प्रतिहते सन्ताडिते दृष्टी यस्य तस्य भावस्तत्ता तया क्षणमवाङ्मुखः
अधोमुखः, विनमितशिरस्क इति यावत् । स्तब्धः मूढ इव यावदास्त अवर्तत च तावदेव जगन्निधेः ब्रह्मणः अनुग्रहमय्या प्रसादरूपया प्रचुरानुग्रहवत्येत्यर्