2023-07-28 05:23:32 by Bharadwajraki
This page has been fully proofread once and needs a second look.
१३२
नीलकण्ठविजये सव्याख्याने
वाचस्पतिरपि भगवान्
"
अत्यद्भुतसभासभानाथसन्दर्शनजडीकृतो
वाचस्पतिरपि भगवान् वाग्देवतावलोकनसम्पन्नभयकम्पसम्भ्र मस्तम्भितवाङ्मुखः क्षणमवाङ्मु-
खश्च तदीयदिव्यतेजःप्रतिहतदृष्टितया यावदास्त स्तब्ध इव, ताव-
दनुग्रहमय्या दृशा जगन्निधेः आगच्छ वत्सेत्यमृतासारकिरा गिरा च
गिरां देव्या निर्व्याजमाप्यायितः, समाधाय कथञ्चिदान्तरं करणम्,
अनुस्मरन् प्रणवम्, आवर्तयन् ब्रह्ममुक्तानि तत्तदागमोदितानि,
प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव
देवदेवस्य प्रारभत किञ्चिदेवमभिधातुम् ।
[Commentary]
नियमस्य प्रायिकत्वेनायं समासस्साधुरेवेति बोध्यम् । भूतानां अण्डजजरायुजस्वे-
दजोद्भिज्जलक्षणानां प्राणिनां ग्रामस्य बृन्दस्य । 'क्कीबे भूतं पिशाचादौ भूम्यादौ
जन्तुसत्त्वयोः' इति नानार्थरत्नमाला । 'ग्राम:H पल्ल्यां स्वरे बृन्दे' इति
विश्वः । समष्टिं समष्टट्यभिमानिनम् । वृक्षाणां समष्टिर्यथा वनमित्युच्यते
तथा भूतानां समष्टिर्हिरण्यगर्भ इत्युच्यत इति भावः । अखिललो-
कस्य अखिलभुवनस्य अखिलजनस्य वा साधारणं समानं पितरं, विद्यानां
उपासनानां, यानि फलानि तेषां विश्रान्तिभूमिं विश्रमस्थानं, वाग्विभूतीनां
वाक्सम्पदां, विरामपदं अवसानस्थानम् । ततः परतरं तुरीयं वक्तुं वाचो न
प्रभवन्तीति भावः । दुराशयानां कलुषितचित्तानां, दूरं गन्तुमशक्यमिति भावः ।
आत्मवेदिनां ब्रह्मज्ञानिनां अदूरं सुगममिति भावः । भगवन्तं पूज्यतमं पितामहं
ब्रह्माणम् अधिगम्य प्राप्य, अत्यद्भुतयोरत्याश्चर्ययोस्सभासभानाथयोस्सन्दर्शनेन
अवलोकनेन, जडीकृत:तः स्तब्धः कृतः भगवान्वाचस्पतिरपि वाग्देवताया, अवलोक-
नेन दर्शनेन, सम्पन्नैः, भयकम्पसम्भ्रमैमैः भीतिवेपथुचापलैलैः, स्तम्भिता निरुद्धा
वाम् वाग्यस्य तत्तथाभूतं मुखं यस्य स तथाभूतः । तदीयेन ब्रह्मसरस्वती सम्बन्धिना
तेजसा प्रतिहते सन्ताडिते दृष्टी यस्य तस्य भावस्तत्ता तया क्षणमवाङ्मुखः
अधोमुखः, विनमितशिरस्क इति यावत् । स्तब्ध:धः मूढ इव यावदास्त अवर्तत च
तावदेव जगन्निधे:धेः ब्रह्मण:णः अनुग्रहमय्या प्रसादरूपया प्रचुरानुग्रहवत्येत्यर्थ: । दृशा
अमृतस्य सुधाया आसारान् धारासम्पातान् किरतीति की:कीः । तथाविधया गिरां
देव्या:याः वत्सागच्छेति गिरा वाचा च निर्व्याजं यथा तथा आप्यायितः परितोषित-
स्सन् आन्तरं करणं चित्तमित्यर्थः । कथञ्चित्कृच्छ्रेण समाधाय अभ्रान्तं कृत्वा ।