2023-09-05 11:06:49 by Bharadwajraki
This page has been fully proofread twice.
प्रथममपामेव स्रष्टव्यतामवधार्य धार्यमाणेनेव स्फटिकमयेन कमण्डलुना परिष्कृतेतरकरपल्लवम्, असकृदधीताध्यापितनिखिलनिगमान्तसिद्धान्तपान्थसनकसनन्दनादिमहादेशिकोद्भावितदुर्भेद- संशयच्छेदसंवादजिज्ञासया मुहुर्मुहुरवलोकयन्तमन्तिकगतां वाग्देवताम्, आचार्यमाचार्याणाम्,
अधिगन्तव्यमधिगन्तव्यानाम्, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यसनिनम्, समष्टिं भूतग्रामस्य, साधारणं पितरमखिललोकस्य, विश्रान्तिभूमिं विद्याफलानाम्, विरामपदं वाग्विभूतीनाम्, दूरं
दुराशयानाम् अदूरमात्मवेदनाम्, अधिगम्य भगवन्तं पितामहम्,
[Ccommentary]
ऽहर्मुखं काल्यम्' इत्यमरः । प्रथममपामुदकानामेव स्रष्टव्यतां सर्जनकर्मत्वम् अवधार्य निश्चित्य, धार्यमाणेन विधृतेन स्फटिकमयेन कमण्डलुना । 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः। परिष्कृतः अलङ्कृतः इतरकरपल्लवः वामपाणिकिसलयं यस्य तथाभूतं असकृद्बहुवारं स्वेन अधीता अन्यस्माल्लब्धाः अध्यापिताः परेभ्यः स्वेन प्रोक्ता ये निगमान्ता वेदान्ता उपनिषद इति यावत् । तेषु ये सिद्धान्ता निष्कृष्टार्थाः तेषु पान्थैः सञ्चारशालिभिः केवलं तत्परैरिति भावः । सनकसनन्दनादिभिः गुरुभिर्देशिकैः उद्भाविताः प्रकाशिता दुर्भेदा दुरुच्छेदाः संशयाः तेषां छेदः तस्मिन् विषये संवादः[^१] गुरुशिष्यकथा तस्मिन् जिज्ञासया तत्र वक्तव्यार्थजिज्ञासया मुहुर्मुहुः वारंवारम्, अन्तिकं समीपं गतां प्राप्तां वाग्देवीं सरस्वतीं अवलोकयन्तं पश्यन्तम् । आचार्याणां मन्त्रव्याख्यातॄणां । 'मन्त्रव्यास्ख्याकृदाचार्यः' इत्यमरः । 'यस्तु धर्मानाचिनोति स आचार्य' इति भगवानापस्तम्बः । मनुरपि 'उपनीय तु यश्शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ।' इति । आचार्यं मन्त्रव्याख्यातारम् । अधिगन्तव्यानामिन्द्राग्न्यादीनामप्यधिगन्तव्यं परमानन्देन उत्कृष्टसुखेन तुन्दिलं पीवरमपि प्रपन्नस्य प्राप्तस्य अनुग्रहे एकं मुख्यं व्यसनं यस्य स तथाभूतमिति विरोधः । आभासस्तु प्रपन्नानां शरणागतानाम्, अनुग्रहे परिपालनविषये एकं मुख्यं व्यसनं आसक्तिर्यस्य स तथाभूतम् । [^२]'कृष्णसर्पवद्वल्मीकजम्' इति भाष्यप्रामाण्यात् 'न कर्मधारयान्मत्वर्थीय' इति
[^१] तत्त्वबुभुत्सुत्वात् गुरुशिष्यकथा संवादः, न तु विजिगीषुकथावत् जल्पः ॥
[^२] न कर्मधारयान्मत्वर्थीयः, बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" -- इति नियमात्, प्रशंसार्थस्य बहुव्रीहिणा अलब्धस्य द्योतनाय मत्वर्थीयः साधुरेव ॥ अत एव "नमो नवघनश्यामकामकामितदेहिने " -- इति चन्द्रिकामङ्गलपद्यं संगच्छते ॥
अधिगन्तव्यमधिगन्तव्यानाम्, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यसनिनम्, समष्टिं भूतग्रामस्य, साधारणं पितरमखिललोकस्य, विश्रान्तिभूमिं विद्याफलानाम्, विरामपदं वाग्विभूतीनाम्, दूरं
दुराशयानाम् अदूरमात्मवेदनाम्, अधिगम्य भगवन्तं पितामहम्,
[
ऽहर्मुखं काल्यम्' इत्यमरः । प्रथममपामुदकानामेव स्रष्टव्यतां सर्जनकर्मत्वम् अवधार्य निश्चित्य, धार्यमाणेन विधृतेन स्फटिकमयेन कमण्डलुना । 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः। परिष्कृतः अलङ्कृतः इतरकरपल्लवः वामपाणिकिसलयं यस्य तथाभूतं असकृद्बहुवारं स्वेन अधीता अन्यस्माल्लब्धाः अध्यापिताः परेभ्यः स्वेन प्रोक्ता ये निगमान्ता वेदान्ता उपनिषद इति यावत् । तेषु ये सिद्धान्ता निष्कृष्टार्थाः तेषु पान्थैः सञ्चारशालिभिः केवलं तत्परैरिति भावः । सनकसनन्दनादिभिः गुरुभिर्देशिकैः उद्भाविताः प्रकाशिता दुर्भेदा दुरुच्छेदाः संशयाः तेषां छेदः तस्मिन् विषये संवादः[^१] गुरुशिष्यकथा तस्मिन् जिज्ञासया तत्र वक्तव्यार्थजिज्ञासया मुहुर्मुहुः वारंवारम्, अन्तिकं समीपं गतां प्राप्तां वाग्देवीं सरस्वतीं अवलोकयन्तं पश्यन्तम् । आचार्याणां मन्त्रव्याख्यातॄणां । 'मन्त्रव्यास्ख्याकृदाचार्यः' इत्यमरः । 'यस्तु धर्मानाचिनोति स आचार्य' इति भगवानापस्तम्बः । मनुरपि 'उपनीय तु यश्शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ।' इति । आचार्यं मन्त्रव्याख्यातारम् । अधिगन्तव्यानामिन्द्राग्न्यादीनामप्यधिगन्तव्यं परमानन्देन उत्कृष्टसुखेन तुन्दिलं पीवरमपि प्रपन्नस्य प्राप्तस्य अनुग्रहे एकं मुख्यं व्यसनं यस्य स तथाभूतमिति विरोधः । आभासस्तु प्रपन्नानां शरणागतानाम्, अनुग्रहे परिपालनविषये एकं मुख्यं व्यसनं आसक्तिर्यस्य स तथाभूतम् । [^२]'कृष्णसर्पवद्वल्मीकजम्' इति भाष्यप्रामाण्यात् 'न कर्मधारयान्मत्वर्थीय' इति
[^१] तत्त्वबुभुत्सुत्वात् गुरुशिष्यकथा संवादः, न तु विजिगीषुकथावत् जल्पः ॥
[^२] न कर्मधारयान्मत्वर्थीयः, बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" -- इति नियमात्, प्रशंसार्थस्य बहुव्रीहिणा अलब्धस्य द्योतनाय मत्वर्थीयः साधुरेव ॥ अत एव "नमो नवघनश्यामकामकामितदेहिने