2023-07-28 05:10:25 by Bharadwajraki
This page has been fully proofread once and needs a second look.
द्वितीयाभ्यासः
१३१
,
प्रथममपामेव स्रष्टव्यतामवधार्य धार्यमाणेनेव स्फटिकमयेन कमण्डलुना
परिष्कृतेतरकरपल्लवम्, असकृदधीताध्यापितनिखिलनिगमान्तसिद्धान्त-
पान्थसनकसनन्दनादिमहादेशिकोद्भावितदुर्भेद- संशयच्छेदसंवादजिज्ञास-
या मुहुर्मुहुरवलोकयन्तमन्तिकगतां वाग्देवताम्, आचार्यमाचार्याणाम्,
अधिगन्तव्यमधिगन्तव्यानाम्, परमानन्दतुन्दिलमपि प्रपन्नानुग्रह -
हैकव्यसनिनम्, समष्टिं भूतग्रामस्य, साधारणं पितर मखिललोकस्य,
विश्रान्तिभूमिमिं विद्याफलानाम्, विरामपदं वाग्विभूतीनाम्, दूरं
दुराशयानाम् अदूरमात्मवेदनाम्, अधिगम्य भगवन्तं पितामहम्,
[Commentary]
ऽहर्मुखं काल्यम्' इत्यमरः । प्रथममपामुदका नामेव स्रष्टव्यतां सर्जनकर्मत्वम् अवघार्य
धार्य निश्चित्य, घाधार्यमाणेन विवृधृतेन स्फटिकमयेन कमण्डलुना । 'अस्त्री कमण्डलुः
कुण्डी' इत्यमरः। परिष्कृतः अलङ्कृतः इतरकरपल्लवः वामपाणिकिसलयं यस्य
तथाभूतं असकृद्धबहुवारं स्वेन अधीता अन्यस्माल्लब्धाः अध्यापिताः परेभ्य:यः स्वेन
प्रोक्ता ये निगमान्ता वेदान्ता उपनिषद इति यावत् । तेषु ये सिद्धान्ता
निष्कृष्टार्थाः तेषु पान्थैः सञ्चारशालिभिः केवलं तत्परैरिति भावः । सनकसनन्दना-
दिभिः गुरुभिर्देशिंशिकैः उद्भाविताः प्रकाशिता दुर्भेदा दुरुच्छेदाः संशयाः तेषां छेदः
तस्मिन् विषये संवाद : 'दः[^१] गुरुशिष्यकथा तस्मिन् जिज्ञासया तत्र वक्तव्यार्थजिज्ञासया
मुहुर्मुहुः वारंवारम्, अन्तिकं समीपं गतां प्राप्तां वाग्देवीं सरस्वतीं अवलोकयन्तं
पश्यन्तम् । आचार्याणां मन्त्रव्याख्यातॄणां । 'मन्त्रव्यास्ख्याकृदाचार्यः' इत्यमरः ।
'यस्तु धर्मानाचिनोति स आचार्य' इति भगवानापस्तम्बः । मनुरपि 'उपनीय
तु यश्शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ।'
इति । आचार्ययं मन्त्रव्याख्यातारम् । अधिगन्तव्यानामिन्द्राम्ग्न्यादीनामप्यधिगन्तव्यं
परमानन्देन उत्कृष्टसुखेन तुन्दिलं पीवरमपि प्रपन्नस्य प्राप्तस्य अनुग्रहे एकं
मुख्ययं व्यसनं यस्य स तथाभूतमिति विरोध:धः । आभासस्तु प्रपन्नानां शरणागता-
नाम्, अनुग्रहे परिपालनविषये एकं मुख्यं व्यसनं आसक्तिर्यस्य स तथाभूतम् ।
62 [^२]'कृष्णसर्पवद्वल्मीकजम्' इति भाष्यप्रामाण्यात् 'न कर्मधारयान्मत्वर्थीय' इति
" नमो
1.
[^१] तत्त्वबुभुत्सुत्वात् गुरुशिष्यकथा संवादः, न तु विजिगीषुकथावत् जल्पः ॥
2.
[^२] न कर्मधारयान्मत्वर्थीयः, बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर : रः" -- इति नियमात्,
प्रशंसार्थस्य बहुव्रीहिणा अलब्धस्य द्योतनाय मत्वर्थीयः साधुरेव ॥ अत एव
"नमो नवघनश्याम काम का मितदेहिने " -- इति चन्द्रिका मङ्गलपद्यं संगच्छते ॥