2023-09-05 10:40:32 by Bharadwajraki
This page has been fully proofread twice.
चतसृणामपि श्रुतीनाम्, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशयान्, त्रैयम्बकमकुटावलोकनावलम्बितहंसदशार्जितेन मृणाळवलयेनेव मृदुना शुचिना च सूत्रमयेनोपवीतेन सूचयन्तमिव सूत्रात्मकतामात्मनः, शस्त्रास्त्रविद्यापारपारीणक्षत्रियवर्गसर्गनिर्वृततयेव शस्त्रग्रहपराङ्मुखेन
प्रकृत्यादिपृथिव्यन्तपञ्चविंशतितत्त्वपरिवर्तनमात्रमेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तमक्षमालिकाम्, अहर्मुखेषु
[Ccommentary]
दयितानां पत्नीनां अन्तःपुरैः स्त्रर्यगारैरिव स्थितैः । 'स्त्र्यगारं भूभुजामन्तः पुरं स्यादवरोधनम्’ इत्यमरः । चतुर्भिराननपङ्कजैः मुखकमलैः अभितोऽपि परितोऽपि महाशयान् सुकृतिनः । 'सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः' इत्यमरः । त्रैयम्बकस्य त्र्यम्बकसम्बन्धिनः मकुटस्य शिरसः अवलोकनार्थं दर्शनाय [^१]आलम्बिता आश्रिता हंसस्य राजहंसस्य या दशा अवस्था तस्यामार्जितेन सम्पादितेन, मृणाळवलयेनेव कमलनाळमण्डलेनेव स्थितेन, मृदुना सुकुमारेण शुचिना शुभ्रेण सूत्रमयेन तन्तुस्वरूपेण उपवीतेन यज्ञसूत्रेण । 'उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे' इत्यमरः । आत्मनः स्वस्य सूत्रमात्मनि देहे यस्य तस्य भावस्तत्ता ताम् । अन्यत्र लिङ्गशरीरसमष्ट्यभिमानिनः ईश्वरस्य सूत्रात्मसंज्ञकताम् । अत्रेदं बोध्यं -- प्रथममीश्वरस्त्रिविधः । कारणशरीरसमष्ट्यभिमानी, सूक्ष्मशरीरसमष्ट्ययभिमानी, स्थूलशरीरसमष्ट्यभिमानी चेति । तत्र प्रथमनिर्दिष्टस्येश्वरस्य अन्तर्यामी अव्याकृत इति द्वे संज्ञे भवतः । तथा द्वितीयस्य हिरण्यगर्भस्सूत्रात्मा प्राणी चेति तिस्रस्संज्ञाः । एवं तृतीयस्य विराट् वैराजः वैश्वानर इति तिस्रस्संज्ञा भवन्तीति। ग्रन्थविस्तरभयादधिंक न लिख्यते । सूचयन्तं प्रकाशयन्तम् । शस्त्रास्त्राणां विद्यैव अकूपारस्समुद्रः । 'समुद्रोऽब्धिरकूपारः' इत्यमरः । तस्य पारीणाः पारगामिनः, पारं दृष्टवन्त इति यावत् । ते च ते ये क्षत्रियाः तेषां वर्गस्य सर्गेण निर्माणेन विर्वृततयेव सुखिततयेव तेषामेव स्वकार्यजयकारित्वादिति भावः । शस्त्राणां ग्रहणे स्वीकारे पराङ्मुखेन निवृत्तेन प्रकृतिः प्रधानमादिर्येषां तानीति तद्गुणसंविज्ञानबहुव्रीहिः । प्रकृत्यादीनि च तानि पृथिव्यन्तानि चेति कर्मधारयः । तथाविधानि यानि पञ्चविंशतिसङ्ख्याकानि तत्त्वानि तेषां परिवर्तनमात्रं भ्रमणनिर्वहणमेव व्यापारः कार्यमिति प्रदर्शयतेव स्थितेन दक्षिणेन पाणिना अक्षमालिकां जपसरं परिवर्तयन्तं परिभ्रमयन्तम् । अहर्मुखेषु प्रत्यूषकालेषु । 'प्रत्यूषो-
[^१] 'अवलम्बित' इति मूलपाठः ।
प्रकृत्यादिपृथिव्यन्तपञ्चविंशतितत्त्वपरिवर्तनमात्रमेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तमक्षमालिकाम्, अहर्मुखेषु
[
दयितानां पत्नीनां अन्तःपुरैः स्त्
[^१] 'अवलम्बित' इति मूलपाठः ।