This page has not been fully proofread.

१३०
 
नीलकण्ठविजये सव्याख्याने
 
,
 
चतसृणामपि श्रुतीनाम्, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशयान्,
त्रैयम्बकमकुटावलोकनावलम्बितहंसदशार्जितेन मृणाळवलयेनेव मृदुना
शुचिना च सूत्रमयेनोपवीतेन सूचयन्तमिव सूत्रात्मकतामात्मनः,
शस्त्रास्त्रविद्यापारपारीणक्षत्रियवर्गसर्गनिर्वृततयेव शस्त्रग्रहपराङ्मुखेन
प्रकृत्य।दिपृथिव्यन्तपञ्चविंशतितत्त्व परिवर्तनमात्रमेव व्यापार इति
प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तमक्षमालिकाम् अहर्मुखेषु
दयितानां पत्नीनां अन्तः पुरैः स्त्रयगारैरिव स्थितैः । 'ख्यगारं भूभुजामन्तः पुरं
स्यादवरोधनम् इत्यमरः । चतुर्भिराननपङ्कजै: मुखकमलैः अभितोऽपि परितोऽपि
महाशयान् सुकृतिनः । 'सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः' इत्यमरः ।
त्रैयम्बकस्य त्र्यम्बक सम्बन्धिनः मकुटस्य शिरसः अवलोकनार्थ दर्शनाय 'आलम्बिता
आश्रिता हंसस्य राजहंसस्य या दशा अवस्था तस्यामार्जितेन सम्पादि-
तेन, मृणाळवलयेनेव कमलनाळमण्डलेनेव स्थितेन, मृदुना सुकुमारेण शुचिना
शुण सूत्रमयेन तन्तुस्वरूपेण उपवीतेन यज्ञसूत्रेण । 'उपवीत यज्ञसूत्र
प्रोद्धृते दक्षिणे करे' इत्यमरः । आत्मनः स्वस्य सूत्रमात्मनि देहे यस्य तस्य
भावस्तत्ता ताम् । अन्यत्र लिङ्गशरीरसमष्टयभिमानिनः ईश्वरस्य सूत्रात्मसंज्ञकताम् ।
अत्रेदं बोध्यं – प्रथममीश्वरस्त्रिविधः । कारणशरीरसमष्टयभिमानी, सूक्ष्मशरीरसम -
ष्टयभिमानी, स्थूलशरीरसमष्टचभिमानी चेति । तत्र प्रथम निर्दिष्टस्येश्वरस्य अन्त-
र्यामी अव्याकृत इति द्वे संज्ञे भवतः । तथा द्वितीयस्य हिरण्यगर्भस्सूत्रात्मा
प्राणी चेति तिस्रस्संज्ञाः । एवं तृतीयस्य विराट् वैराजः वैश्वानर इति तिस्रस्संज्ञा
भवन्तीति। ग्रन्थविस्तरभयादधिंक न लिख्यते । सूचयन्तं प्रकाशयन्तम् । शस्त्रा-
स्त्राणां विद्यैव अकूपारस्समुद्रः । 'समुद्रोऽब्धिरकूपारः' इत्यमरः । तस्य पारीणाः
पारगामिनः, पारं दृष्टवन्त इति यावत् । ते च ते ये क्षत्रियाः तेषां वर्गस्य सर्गेण
निर्माणेन विर्वृततयेव सुखिततयेव तेषामेव स्वकार्यजयकारित्वादिति भावः ।
शस्त्राणां ग्रहणे स्वीकारे पराङ्मुखेन निवृत्तेन प्रकृति: प्रधानमादिर्येषां तानीति
तद्गुणसंविज्ञानबहुव्रीहिः । प्रकृत्यादीनि च तानि पृथिव्यन्तानि चेति कर्मधारयः ।
तथाविधानि यानि पञ्चविंशतिसङ्ख्याकानि तत्त्वानि तेषां परिवर्तनमात्र भ्रमण -
निर्वहणमेव व्यापारः कार्यमिति प्रदर्शयतेव स्थितेन दक्षिणेन पाणिना अक्ष-
मालिकां जपसरं परिवर्तयन्तं परिभ्रमयन्तम् । अहर्मुखेषु प्रत्यूषकालेषु । 'प्रत्यूषो-
1. 'अवलम्बित' इति मूलपाठः ।