2023-09-05 10:27:30 by Bharadwajraki
This page has been fully proofread twice.
स्तवेष्टिततया व्याकोचाष्टदळात्मिकां व्यञ्जयदिव कमलासनतां, त्रिभङ्गीसमुन्नततया त्रिवर्गातीतमिव सर्वतोभद्रं[^१] भद्रासनमधितिष्ठन्तं, समसमयसमुद्यदादित्यसहस्रभास्वरैरर्केन्दुविद्युदनलरूपचतुस्तेजस्समुत्तम्भनायेव चतुर्दिक्षु निर्जिहानैस्तेजोभिरवलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां, सन्ततव्यवहारसंसक्तत्रिचतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरिहृतसंसारशार्वरैरायतापाङ्ग- रिङ्गदभङ्गुरकरुणातरङ्गमालाभिराचार्यकाभिषेकमादधानैरिव योगिनामध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां
[Ccommentary]
प्रकारे तुङ्गस्तु शैलपुन्नागयोरपि' इति नानार्थमाला । सोपानैरिति यावत् । समुन्नततया उच्चतया त्रिवर्गं धर्मकामार्थत्रितयम् अतिक्रान्तमिव स्थितम् । 'त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गस्समोक्षकैः' इत्यमरः । सर्वतः भद्रं मङ्गळं भजतां यस्मादिति तत्तथा । भद्रासनं सिंहासनमित्यर्थः । 'नृपासनं तु यद्भद्रासनं सिंहासनं तु तत्' इत्यमरः । अधितिष्ठन्तं । 'अधिशीङ्स्थासां कर्म' (१.४.४६) इति कर्मत्वम् । समसमये एककाले समुद्यतां समुद्भवतां आदित्यानां सहस्रेणेव भास्वरैः प्रकाशैः अर्केन्दुविद्युदनलरूपाणां सूर्यचन्द्रतटिदग्निस्वरूपाणां चतुर्णां तेजसां समुत्तम्भनाय स्तम्भनायेव चतुर्दिक्षु निर्जिहानैः निर्गच्छद्भिः तेजोभिः मुखदीप्तिभिः दिवौकसां देवानां दिव्यं अभौमं चक्षुरपि अवलुम्पन्तं मुकुळयन्तमिव स्थितम् । सन्ततं सदा व्यवहारे उच्चारणे संसक्ताः त्रयश्चत्वारो वा [^२]त्रिचतुराः आगमाक्षराः संयुक्तवर्णा इत्यर्थः । तेषु प्रेक्षणीया या दन्तचन्द्रिका दन्तप्रभा तया परिहृतं संसारः जननमरणप्रवाह एव शार्वरं तमः येषां ते तथाविधैः । 'शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्' इत्यमरः । आयताः दीर्घाः अपाङ्गा नेत्रान्ता एव रिङ्गन्त्याः प्रवहन्त्याः, करुणायाः कृपायास्तरङ्गाः तेषां मालाभिः परम्पराभिः आत्मनि अध्यात्मं विभक्त्यर्थेऽव्ययीभावः । अध्यात्मविद्या उपासनाः तासु विषये महायोगिनां आचार्यके आचार्यभावे कर्मणीत्यर्थः । अभिषेकं पट्टाभिषेकं आदधानैः कुर्वद्भिरिव स्थितैः । योगिनां ब्रह्मविद्याचार्यकप्रदैरिति भावः । चतसृणां श्रुतीनामेव
[^१] भद्रासनमन्वर्थमिति सूचयति "सर्वतोभद्रम्" इति बहुव्रीहिसमासरूपविशेषणदानेन कविः ॥ आकारमात्रात् सिंहयुक्तं तत् सिंहासनम्, तत्त्वतस्तु भजतां सर्वमङ्गलप्रदमिति तात्पर्यम् ॥
[^२] 'त्र्युपाभ्यां चतुरोऽजिष्यते' (वा. ५.४.७७) इत्यचतुरसूत्रगतवार्तिकेनाचि समासान्ते त्रिचतुराः इति बहुव्रीहौ रूपम् ॥
[