2023-06-05 16:40:01 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
१२९
स्तवेष्टिततया व्याकोचाष्टदळात्मिकां व्यञ्जयदिव कमलासनतां, त्रिभङ्गी-
समुन्नततया त्रिवर्गातीतमिव सर्वतोभद्रं ' भद्रासनमधितिष्ठन्तं, समसम-
यसमुद्यदादित्यसहस्रभास्वरैरर्केन्दुविद्युदनलरूपचतुस्तेजस्समुत्तम्भनायेव
चतुर्दिक्षु निर्जिहानैस्तेजोभिरवलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां,
सन्ततव्यवहारसंसक्तत्रिचतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरि
हृतसंसारशार्वरैरायतापाङ्गरिङ्गदभङ्गुरकरुणातरङ्गमालाभिराचार्यकाभिषेक-
मादधानैरिव योगिना मध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां
।
प्रकारे तुमस्तु शैलपुन्नागयोरपि ' इति नानार्थमाला । सोपानैरिति यावत् ।
समुन्नततया उच्चतया त्रिवर्ग धर्मकामार्थत्रितयम् अतिक्रान्तमिव स्थितम् । 'त्रिवर्गो
धर्मकामार्यैश्चतुर्वर्गस्समोक्षकैः' इत्यमरः । सर्वतः भद्रं मङ्गळं भजतां यस्मादिति
तत्तथा । भद्रासनं सिंहासन मित्यर्थः । 'नृपासनं तु यद्भद्रासनं सिंहासनं तु तत्'
इत्यमरः । अधितिष्ठन्तं । 'अधिशीस्थासां कर्म' (1-4-46) इति कर्मत्वम् ।
समसमये एककाले समुद्यतां समुद्भवतां आदित्यानां सहस्रेणेव भास्वरैः प्रकाशैः
अर्केन्दुविद्युदनलरूपाणां सूर्यचन्द्रतटिदग्मिस्वरूपाणां चतुर्णां तेजसां समुत्तम्भनाय
स्तम्भनायेव चतुर्दिक्षु निर्जिहानैः निगच्छद्भिः तेजोभिः मुखदीप्तिभिः दिवौकसां
देवानां दिव्यं अभौम चक्षुरपि अवलुम्पन्तं मुकुळयन्त मिव स्थितम् । सन्ततं
सदा व्यवहारे उच्चारणे संसक्ताः त्रयश्चत्वारो वा 2 त्रिचतुरा: आगमाक्षरा: संयुक्त-
वर्णा इत्यर्थः । तेषु प्रेक्षणीया या दन्तचन्द्रिका दन्तप्रभा तथा परिहृतं संसार:
जननमरणप्रवाह एव शार्वरं तमः येषां ते तथाविधैः । 'शार्वरं त्वन्धतमसे
धातुके मेद्यलिङ्गकम्' इत्यमरः । आयताः दीर्घा: अपाङ्गा नेत्रान्ता एव रिङ्गन्त्याः
प्रवहन्त्याः, करुणायाः कृपायास्तरङ्गाः तेषां मालाभिः परम्पराभिः आत्मनि
अध्यात्मं विभत्तयर्थेऽव्ययीभावः । अध्यात्मविद्या उपासनाः तासु विषये महा-
योगिनां आचार्यके आचार्यभावे कर्मणीत्यर्थः । अभिषेकं पट्टाभिषेकं आदधानैः
कुर्वद्भिरिव स्थितैः। योगिनां ब्रह्मविद्याचार्यकप्रदैरिति भावः । चतसृणां श्रुतीनामेव
1. भद्रासनमन्वर्थमिति सूचयति सर्वतोभद्रम्" इति बहुब्रीहिसमासरूप-
विशेषणदानेन कविः ॥ आकारमात्रात् सिंहयुक्तं तत् सिंहासनम्, तत्त्वतस्तु भजतां
सर्वमङ्गलप्रदमिति तात्पर्यम् ॥
2. 'त्र्युपाभ्यां चतुरोऽजिष्यते' (वा. 5-4.77) इत्यचतुरसूत्रगतवार्तिकेनाचि
समासान्ते त्रिचतुराः इति बहुव्रीहौ रूपम् ॥
N – 17