This page has been fully proofread twice.

अथ भगवानाङ्गिरसो देवर्षिभिः परिष्वज्यमानःa पदेपदे नारदादिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पतञ्जलिप्रमुखैः, अभिवाद्यमानः सिद्धविद्याधरैः, आनीयमानस्सबहुमानमाप्तभृत्यैः परमेष्ठिनः, परिवृतो देवैः परमाश्चर्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगापरिणमद्भेदैरुच्चावचैर्मणिभिरुपरञ्जितम्, उपर्यास्तीर्णहंसतूलिकातल्पकल्पितमहार्होपबर्हम्, अहिंसानृशंस्यकोमळिमावर्जितशमदमाभोगमन्तःकरणमिव महायोगिनां, ताळवृन्तचामरताम्बूलकरण्डकळाचिकाद्युपचारचतुरवरवर्णिनीजनन्यस्तवामह-
 
[Ccommentary]
 
सिद्धविद्याधरैः अभिवन्द्यमानः नम्यमानः । परमेणाश्चर्येण विस्मयेन निर्भरैः परिपूर्णैः देवैः परिवृतः । भगवानाङ्गिरसो बृहस्पतिः परमेष्ठिन आप्तभृत्यैस्सबहुमानं यथा तथा आनीयमानस्सन् । परस्परस्य योगवियोगाभ्यां संश्लेषविश्लेषाभ्यां परिणमन्तस्समुद्भवन्तः भेदाः प्रकाराः येषां ते तथाविधैः प्रकृतेः महासुषुप्तिनामिकायाः गुणैः सत्त्वरजस्तमोभिरिव स्थितैः उच्चावचैः अनेकविधैः । 'उच्चावचं नैकभेदम्' इत्यमरः । मणिभिः वज्रादिभिरुपरञ्जितं उपरि भद्रासनस्योपरिभागे, आस्तीर्णं परिस्तीर्णं यत् हंसतूलिकया विरचिता शय्येत्यर्थः । 'तल्पं शय्याट्टदारेषु' इत्यमरः । तस्मिन् कल्पितः निक्षिप्तः, महार्हः श्लाघ्यः उपबर्हः उपधानं यस्मिन्तत् । 'उपधानं तूपबर्हश्शय्यायां शयनीयवत्' इत्यमरः । अत एव अहिंसा अद्रोहः नृशंसो घातुको न भवतीत्यनृशंसः तस्य भाव आनृशंस्यम् अघातुकत्वमित्यर्थः । 'नृशंसो घातुकः क्रूर’ इत्यमरः । तयोः कोमलिम्ना उपचयेन, आवर्जितः, शमदमयोः अन्तरिन्द्रियहिरिन्द्रियनिग्रहयोराभोगः पूर्णता यस्मिन् तत्तथा । 'आभोगौ पूर्णतायत्नौ' इति नानार्थरत्नमाला । महायोगिनां योगीश्वराणामन्तःकरणमिव स्थितम् । ताळवृन्तं व्यजनं, चामरः, ताम्बूलकरण्डः ताम्बूलभाजनं कळाचिका चर्वितनिष्ठीवनोपयोगिपात्रविशेषः तदादिभिरुपचारे सेवायां चतुराः ये वरवर्णिनीजनाः स्त्रीजनाः तैः न्यस्ता निक्षिप्ताः ये वामहस्ताः तैर्वेष्टिततया परिवृततया, व्याकोचाः विकचानि अष्टसङ्ख्याकानि दळानि यस्य स तथाभूतः आत्मा स्वभावो यस्यास्तथाविधां कमलासनतां व्यञ्जयदिव अभिव्यक्तं कुर्वदिव स्थितं तिसृभिः भङ्गीभिः आरोहणरूपप्रकारैः । 'भङ्गी
 
a. 'परिष्वज्यमान ' इति मूलपाठः । 'स्तूयमान' इति व्याख्यापाठः ।