This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
अथ
भगवानाङ्गिरसो देवर्षिभिः परिष्वज्यमानः पदेपदे नारदा-
दिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पतञ्जलिप्रमुखैः, अभिवाद्यमानः सिद्ध-
विद्याधरैः, आनीय मानस्सबहुमानमाप्तभृत्यैः परमेष्ठिनः, परिवृतो देवः
वैः परमाश्र्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगा परिणमद्भेदैरुच्चावचैर्म-
णिभिरुपरञ्जितम्, उपर्यास्तीर्णहंसतूलिकातल्पकल्पितमहार्होपबर्हम्, अहिं
सानृशंस्यकोमळिमावर्जितश मदमाभोगमन्तःकरणमिव महायोगिनां, ताळ-
वृन्त चामरताम्बूलकर ण्डकळाचिकाद्युप चारचतुरवरवर्णिनीजनन्यस्तवामह-
१२८
 

 
[Commentary]
 
सिद्धविद्यारैः अभिवन्द्यमानः नम्यमानः । परमेणाश्चर्येण विस्मयेन निर्भरैः परिपूर्णैः
देवैः परिवृत:तः । भगवानाङ्गिरसो बृहस्पतिः परमेष्ठिन आप्तभृत्यैस्सबहुमानं यथा
तथा आनीयमानस्सन् । परस्परस्य योगवियोगाभ्यां संश्लेषविश्लेषाभ्यां परिण-
मन्तर
मन्तस्समुद्भवन्तः भेदाः प्रकाराः येषां ते तथाविधैः प्रकृतेः महासुषुप्तिनामिकायाः
गुणैः सत्त्वरजस्तमोभिरिव स्थितैः उच्चावचैः अनेकविधैः । 'उच्चावचं नैकभेदम्'
इत्यमरः । मणिभिः वज्रादिभिरुपरञ्जितं उपरि भद्रासनस्योपरिभागे, आस्तीर्
णं परिस्तीर्णं यत् हंसतूलिकया विरचिता शय्येत्यर्थः । 'तल्पं शय्याट्टदारेषु'
इत्यमरः । तस्मिन् कल्पितः निक्षिप्तः, महार्हः श्लाघ्य:यः उपबई:र्हः उपधानं यस्मिन्
तत् ।
तत् । 'उपधानं तूप बर्हश्शय्यायां शयनीयवत्' इत्यमरः । अत एव
अहिंसा अद्रोहः नृशंसो घातुको न भवतीत्यनृशंस:सः तस्य भाव आनृशंस्यम्
अघातुकत्वमित्यर्थः । 'नृशंसो घातुकः क्रूर इत्यमरः । तयोः कोमलिम्ना उप-
चयेन, आवर्जितः, शमदमयोः अन्तरिन्द्रिय वहिरिन्द्रियनिग्रहयोराभोगः पूर्णता
यस्मिन् तत्तथा । 'आभोगौ पूर्णतायत्नौ' इति नानार्थरत्नमाला । महा-
योगिनां योगीश्वराणामन्तःकरणमिव स्थितम् । ताळवृन्तं व्यजनं, चामरः, ताम्बूल-
करण्ड:डः ताम्बूलभाजनं कळाचिका चर्वितनिष्ठीवनोपयोगिपात्र विशेषः तदादिभिरुप-
चारे सेवायां चतुराः ये वरवर्णिनीजनाः स्त्रीजनाः तैः न्यस्ता निक्षिप्ताः ये वाम-
हस्ताः तैर्वेष्टिततया परिवृततया, व्याकोचाः विकचानि अष्टसङ्ख्याकानि दळानि
यस्य स तथाभूतः आत्मा स्वभावो यस्यास्तथाविधां कमलासनतां व्यञ्जय दिव
अभिव्यक्तं कुर्वदिव स्थितं तिसृभिः भङ्गीभिः आरोहणरूपप्रकारैः । 'भङ्गी
 
( 8 )

 
a.
'परिष्वज्यमान ' इति मूलपाठ:ठः । 'स्तूयमान' इति व्याख्यापाठः ।