This page has been fully proofread once and needs a second look.

अपि च
 
गच्छतामन्तरेषामालक्ष्य गतिमतिमलीमसाम्, अधिगन्तव्याधिगमेन निर्वृताः सर्वतोऽपि महर्षयः कतिचित् 'अतिचिरंकालमहोखलु वयमप्यमीषां सामीप्यसारूप्यसायुज्यसालोक्यसिद्धिमाशासानाa
नानाविधानि तपांसि वृथा चकृम' इति विगर्हमाणास्स्वमात्मानं लज्जितानमरान् भूयोऽपि लज्जयाञ्चक्रिरे ।
 
[Ccommentary]
 
[‌^१]कतमः किं सङ्ख्यापूरक इति दौवारिकैः पृच्छयमानाः अनुयुज्यमानास्सन्तः । अन्तः बलवदत्यन्तं ललज्जिरे लज्जामापुरित्यर्थः । देवानेव सदनं प्रविशतः पुनर्वर्णयति ॥ गच्छतामिति ॥ अन्तः भवनान्तरप्रदेशं गच्छतां गमनं कुर्वतां एषां देवानां मलीमसां मलिनाम् । 'मलीमसं तु मलिनम्' इत्यमरः । गतिं दशाम् । 'गतिर्मार्गे दशायां च' इति विश्वः । आलक्ष्य दृष्ट्वा । अधिगन्तुम् अवश्यं प्राप्तुं योग्योऽधिगन्तव्यो ब्रह्मलोकः तस्याधिगमेन प्राप्त्या सर्वतः सर्वप्रकारैः निर्वृताः सुखिताः महर्षयः ब्रह्मलोकवासिन इति शेषः । अहो इत्याश्चर्ये, खेदे च निपातः । कतिचित् केचित्, वयममीषां देवानां [‌^२]सामीप्यस्य समीपवर्तनस्य, सायुज्यस्य तादात्म्यस्य, सारूप्यस्य समानरूपत्वस्य, सालोक्यस्य सलोकतायाः, सिद्धिं प्राप्तिं आशंसमाना इच्छन्तस्सन्तः अतिचिरंकालं बहुकालं विविधानि अनेकविधानि तपांसि कृच्छ्रचान्द्रायणादीनि वृथा निष्प्रयोजनम् । कर्मभूमिनिवासदशायामिति भावः । चकृम कृतवन्तः इति स्वमात्मानं बुद्धिम् । 'आत्मा यत्नो धृतिबुद्धिस्स्वभावो ब्रह्म वर्ष्म च’ इत्यमरः । विगर्हमाणाः विनिन्दन्तस्सन्तः, लज्जितान् सञ्जातलज्जान्, अमरान्, भूयोऽपि लज्जयाञ्चकिरे त्रपयामासुरित्यर्थः । ब्रह्मलोकवासिभिस्सबहुमानं नीतो बृहस्पतिः भद्रासनस्थं ब्रह्माणं दृष्ट्वा किञ्चिद्वक्तुमारभतेत्याह ॥ अथेति ॥ अथालयप्रवेशानन्तरं नारदादिभिस्सुरर्षिभिः पदे पदे प्रतिपदं स्तूयमानः प्रशस्यमानः, पतञ्जलिप्रमुखः विद्वद्भिः पण्डितैः प्रत्युद्गम्यमानः अभिगम्यमानः ।
 
a. 'आशंसमानाः' इति व्याख्यापाठः ।
 
[‌^१] "कतितमः" मूलपाठः, "कतमः " -- व्याख्यापाठः । "षट्कतिकतिपयचतुरां थुक्" (पा. सू. ५.२.५१) इति युकि "कतिथः" -- इत्येव भाव्यम् ।
 
[‌^२] सालोक्य-सारूप्य-सामीप्य-सायुज्य-नामकाः दशाविशेषाः दर्शिताः, सर्ष्टितापि अन्या पञ्चमी दशा श्रुतौ प्रसिद्धा ॥