2023-06-05 16:40:00 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
१२७
अपि च
गच्छतामन्तरेषामालक्ष्य गतिमतिमलीमसाम्, अधिगन्तव्याधि-
गमेन निर्वृताः सर्वतोऽपि महर्षयः कतिचित् 'अतिचिरंकाल महो-
खलु वयमप्यमीषां सामीप्यसारूप्यसायुज्यसालोक्यसिद्धिमाशासाना
नानाविधानि तपांसि वृथा चक्रम' इति विगर्हमाणास्स्वमात्मानं
लज्जितानमरान् भूयोऽपि लज्जयाञ्चक्रिरे ।
'कतम: किं सङ्ख्यापूरक इति दौवारिकैः पृच्छयमानाः अनुयुज्यमानास्सन्तः । अन्तः
बलवदत्यन्तं ललज्जिरे लज्जामापुरित्यर्थः । देवानेव सदनं प्रविशतः पुनर्वर्णयति ॥
गच्छतामिति ॥ अन्तः भवनान्तरप्रदेशं गच्छतां गमनं कुर्वतां एषां देवानां
मलीमसां मलिनाम् । 'मलीमसं तु मलिनम्' इत्यमरः । गतिं दशाम् । 'गति-
मर्गे दशायां च ' इति विश्वः । आलक्ष्य दृष्ट्वा । अधिगन्तुम् अवश्यं प्राप्तुं
योग्योऽधिगन्तव्यो ब्रह्मलोक: तस्याधिगमेन प्राप्तया सर्वतः सर्वप्रकारैः निर्वृताः
सुखिताः महर्षयः ब्रह्मलोकवासिन इति शेषः । अहो इत्याश्चर्ये, खेदे च निपातः ।
कतिचित् केचित्, वयममीषां देवानां सामीप्यस्य समीपवर्तनस्य, सायुज्यस्य तादा-
त्म्यस्य, सारूप्यस्य समानरूपत्वस्य, सालोक्यस्य सलोकतायाः, सिद्धि प्राप्ति आशंसमाना
इच्छन्तस्सन्त: अतिचिरंकालं बहुकालं विविधानि अनेकविधानि तपांसि कृच्छ्रचा-
न्द्रायणादीनि वृथा निष्प्रयोजनम् । कर्मभूमिनिवासदशायामिति भावः । चकृम कृत-
वन्तः इति स्वमात्मानं बुद्धिम् । 'आत्मा यलो धृतिबुद्धिस्स्वभावो ब्रह्म वर्ष्म च
इत्यमरः । विगर्हमाणाः विनिन्दन्तस्सन्तः, लज्जितान् सञ्जातलज्जानू, अमरान्,
भूयोऽपि लज्जयाञ्चकिरे त्रपयामासुरित्यर्थः । ब्रह्मलोकवासिभिस्सबहुमानं नीतो
बृहस्पतिः भद्रासनस्थं ब्रह्माणं दृष्टा किञ्चिद्वक्तुमारभतेत्याह ॥ अथेति ॥
अथालयप्रवेशानन्तरं नारदादिभिस्सुरर्षिभिः पदे पदे प्रतिपदं स्तूयमानः
प्रशस्यमानः, पतञ्जलिप्रमुखः विद्वद्भिः पण्डितैः प्रत्युद्गम्यमानः अभिगम्यमानः ।
(a) 'आशंसमानाः' इति व्याख्यापाठः ।
1.
" कतितमः '
मूलपाठः, कतमः " – व्याख्यापाठः । 'षट्कतिकति-
पयचतुरां थुक् " (पा. सू. 5-2-51) इति युकि " कतिथ: ". - इत्येव भाव्यम् ।
-
66
2. सालोक्य - सारूप्य - सामीप्य - सायुज्य-नामका: दशाविशेषाः दर्शिताः, सटितापि
अन्या पञ्चमी दशा श्रुतौ प्रसिद्धा ॥