This page has been fully proofread once and needs a second look.

१२६
अपि च ।
 
नीलकण्ठविजये सव्याख्याने
 

 
प्राकारगोपुर विहारवितर्दिकानां
 

मूलेषु यत्र हरिनीलशिलाविभङ्गाः ।

सक्ताश्चिरादिव जयन्ति युगान्तधूम-

सन्तानसङ्घटितसान्द्रमषीविलेपाः ॥ १० ॥
 

 
प्रविशन्तश्च तमालयं, 'ननु प्रातरागतस्य पुरुहूतनाम्रो
दिवस्पतेः कतितमः पुरन्दरो नामायम्' इति पृच्छ्यमाना दौवारिकै-
र्निर्जरा बलवदन्तर्ललज्जिरे ।
 

 
[Commentary]
 
आदरं कुर्वता । कर्तरि क्तः । विधिना विश्वसृजा दृष्ट्यापि नेत्रेणापि । 'दृष्टि-
र्ज्ञानेऽक्षिणष्णि दर्शने' इत्यमरः । नालोकिताः न दृष्टाः प्रत्युत किंचेत्यर्थः । सर्वे ये
भुज्यन्त इति भोगाः विषयाः तेषु विमुखैः पराङ्मुखैः, सभ्यैस्सामाजिकैः ।
'सभासदस्सभास्तारास्सभ्यास्सामाजिकाश्च ते' इत्यमरः । दूरतः दूरात्, उत्सारिताः
निष्कासिताः । नृत्यन्त्यः नृतं कुर्वन्त्यस्सुरसुश्भ्रुवः परं सुरस्त्रियस्तु आनन्दस्य उत्कृष्ट-
सुखस्य एकपदे मुख्यस्थाने तत्रापि ब्रह्मलोकेऽपि । कलायां स्वाभ्यस्तविद्यायां
कौशल्यस्य चातुर्यस्य, वैफल्यतः निष्फलत्वात् । मानसीं मनस्सम्बन्धिनीं व्यथां
बाधां मनोरोगमिति यावत् । अधुः दधुरित्यर्थः । ब्रह्मलोकभवनमेव पुनर्वर्णयति ॥
अपि चेति ॥ यत्र भवने प्राकाराणां सालानां गोपुराणां द्वाराणाम् । 'द्वारमात्रे
तु गोपुरम् ' इत्यमरः । विहारार्थं या वितर्दिकाः वेदिकाः तासाम् । 'स्याद्वि-
तर्दिस्तु वेदिका' इत्यमरः । मूलेषु मूलप्रदेशेषु हरिनीलशिलानां इन्द्रनीलमणीनां
विभङ्गाः खण्डाः चिरात् बहुकालमारभ्य सक्ताः युगान्ते प्रळयविशेषे यो धूमस्य
सन्तानः सङ्कर्षणमुखाग्निधूमसङ्घः तेन सङ्घटिताः संप्राप्ताः, सान्द्राः अविरळाः
ये मषीविलेपाः कज्जलविलिप्तयः त इव जयन्ति अतिशयेन वर्तन्ते । दीपोपरि -
देशविन्यस्त सुषाधाचूर्ण विलिप्तशरावाधोभागे यथा दीपाग्रधूममषीस ङ्क्रान्त यस्तथेति
भावः ॥ तमिति ॥ तमालयं ब्रह्मसदनं प्रविशन्तः प्रवेशं कुर्वाणा:णाः निर्जराः देवाः ।
ननुशब्दः सम्बोधने । प्रातः, आगतस्य आयातस्य पुरुहूत इति नामधेयं यस्य तथा
भूतस्य दिवस्पतेः स्वर्गाधिपतेः । निर्धारणे षष्ठी । जात्येकवचनम् । एवं च
स्वर्गाधिपतीनां मध्य इत्यर्थः । पुरन्दर इति नाम प्रसिद्धः अयं परिदृश्यमानः