2023-09-05 09:42:28 by Bharadwajraki
This page has been fully proofread twice.
असाध्यमध्वरैः, अलभ्यमधिकैरपि तपोविपाकैकैः, दुरारोहं महादानैः, दुरवगाहमाहवसाहसैः, असम्भावनीयं मनसापि स्वायम्भुवं भवनम् ।
स्वाध्यायाध्ययनादृतेन विधिना दृष्टट्यापि नालोकिताः
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः ।
[^१]नृत्यन्त्यस्सुरसुभ्ररुवः परमधुस्तत्र व्यथां मानसीं
आनन्दैकपदेऽपि धामनि कलाकौशल्यवैफल्यतः ॥ ९॥
[Ccommentary]
क्रकरो मण्डलं चक्रवाळकम्' इत्यमरः । मण्डितः भूषितः, आस्थानमण्टपस्सभामण्टपो यस्य तत् । 'सभासमितिसंसदः । आस्थानी क्लीबमास्थानम्' इत्यमरः । विपदां सङ्कर्षणाग्निबाघाधादीनां अपदं अनास्पदम् । वाचामगोचरं अविषयम् । अर्वाचामधमानां अनाशङ्कनीयमसम्भावनीयम् ।आचारस्सत्सम्प्रदायानुवर्तनं तदेव तन्मात्रं शरणं रक्षितृ येषां ते तैः, केवलमाचारनिपुणैरित्यर्थः । 'शरणं गृहरक्षित्रोः' इत्यमरः । अगम्यम् अप्राप्यम् । अध्वरैः यज्ञैः असाध्यं सम्पादयितुमशक्यमित्यर्थः । 'यज्ञस्सवोऽध्वरो याग' इत्यमरः । अधिकैः तपसां कृच्छ्रचान्द्रायणादीनां विपाकैरप्यलभ्यं लब्धुमशक्यम् । महादानैः भूदानादिभिः दुरारोहं दुःखेन आरोढुं शक्यम् । आहवा युद्धानि । 'सङ्गामाभ्यागमाहवा' इत्यमरः । तेषु यानि साहसानि बहुप्रकारा दण्डोपायास्तैः । 'साहसं तु दमो दण्ड' इत्यमरः । दुरवगाहं प्रवेशानर्हं मनसा सङ्कल्पविकल्पात्मकेनापि अन्तःकरणविशेषेण असम्भावनीयमिदमित्थमिति तर्कितुमशक्यमित्यर्थः । स्वयम्भुवश्चतुराननस्येदं तत्सम्बन्धि भवनं सद्म, अविदूरतः नातिदूर एव । सप्तम्यास्तसिः । अद्राक्षुः ददृशुः । गुरावनुकूले कस्य किं दुष्करमिति भावः । ब्रह्मलोकं प्रविशतां देवानां तत्कार्यसम्पन्नं वृत्तं वर्णयति ॥ स्वाध्यायेति ॥ स्वाध्यायानां
वेदानां अध्ययनं पारायणम् । अथवा स्वाध्याये जपे अध्ययने च आदृत आदरवानित्यर्थः । 'स्वाध्यायः स्याज्जपस्सुत्या' इत्यमरः । तस्मिन्नादृतेन
[^१] नृत्यन्तीनां सुरसुभ्रुवाम्, ब्रह्मसदने स्थितानामनादरात् नृत्यकलायाम्, स्वर्गभवन इवादराभावाच्च, आनन्दधामनि तत्र व्यथैवासीत् ॥ किञ्च "मानसीम्" -- इति
विशेषणात् -- सुखदुःखयोः मनोधर्मत्वेन वासनाधीनत्वात्, न बाह्यवस्तुपारतन्त्र्यमित्यपि चित्तं भवति ॥
स्वाध्यायाध्ययनादृतेन विधिना दृष्
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः ।
[^१]नृत्यन्त्यस्सुरसुभ्
आनन्दैकपदेऽपि धामनि कलाकौशल्यवैफल्यतः ॥ ९॥
[
क्रकरो मण्डलं चक्रवाळकम्' इत्यमरः । मण्डितः भूषितः, आस्थानमण्टपस्सभामण्टपो यस्य तत् । 'सभासमितिसंसदः । आस्थानी क्लीबमास्थानम्' इत्यमरः । विपदां सङ्कर्षणाग्निबा