This page has not been fully proofread.

द्वितीयाश्वासः
 
असाध्यमध्वरैः, अलभ्यमधिकैरपि तपोविपाकै:, दुरारोहं महादानैः,
दुरवगाहमाहवसाहसैः, असम्भावनीयं मनसापि स्वायम्भुवं भवनम् ।
स्वाध्यायाध्ययनादृतेन विधिना दृष्टयापि नालोकिताः
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः ।
'नृत्यन्त्यरसुरसुभ्रवः परमधुस्तत्र व्यथां मानसीं
आनन्दैकपदेऽपि धामनि कलाकौशल्यवैफल्यतः ॥ ९॥
 
क्रकरो मण्डलं चक्रवाळकम्' इत्यमरः । मण्डितः भूषितः, आस्थानमण्टपस्सभा-
मण्टपो यस्य तत् । 'सभासमितिसंसदः । आस्थानी क्लीबमास्थानम् इत्यमरः ।
विपदां सङ्कर्षणाग्निबाघादीनां अपदं अनास्पदम् । वाचामगोचरं अविषयम् ।
अर्वाचामधमानां अनाशकनीयमसम्भावनीयम् । आचारस्सत्सम्प्रदायानुवर्तनं तदेव
तन्मात्रं शरणं रक्षितृ येषां ते तैः, केवलमाचार निपुणैरित्यर्थ: । 'शरणं
गृहरक्षित्रो: ' इत्यमरः । अगम्यम् अप्राप्यम् । अध्वरैः यज्ञैः असाध्यं सम्पादयि-
तुमशक्यमित्यर्थः । 'यज्ञस्सवोऽध्वरो याग' इत्यमरः । अधिकै: तपसां कृच्छ्र-
चान्द्रायणादीनां विपाकैरप्यलभ्यं लब्धुमशक्यम् । महादानैः भूदानादिभि: दुरारोहं
दुःखेन आरोढुं शक्यम् । आहवा युद्धानि । 'सङ्गामाभ्यागम हवा' इत्यमरः ।
तेषु यानि साहसानि बहुप्रकारा दण्डोपायास्तैः । 'साहसं तु दमो दण्ड '
इत्यमरः । दुरवगाहं प्रवेशान है मनसा सङ्कल्प विकल्पात्मकेनापि अन्तःकरण -
विशेषेण असम्भावनीयमिद मित्थमिति तर्कितुमशक्यमित्यर्थः । स्वयम्भुवश्धसुरान-
नस्येदं तत्सम्बन्धि भवनं सद्म, अविदूरतः नातिदूर एब ससम्यास्तसिः ।
अद्राक्षुः ददृशुः । गुरावनुकूले कस्य किं दुष्करमिति भावः । ब्रह्मलोकं
प्रविशतां देवानां तत्कार्यसम्पन्नं वृतं वर्णयति ॥ स्वाध्यायेति ॥ स्वाध्यायानां
वेदानां अध्ययनं पारायणम् ।
आदरवानित्यर्थः । 'स्वाध्यायः
 
अथवा स्वाध्याये जपे अध्ययने च आहत
स्याज्जपस्सुत्या' इत्यमरः । तस्मिन्नादृतेन
 
1. नृत्यन्तीनां सुरसुवाम् ब्रह्मसदने स्थितानामनादरात् नृत्यकलायाम्, स्वर्ग-
भवन इवादराभावाच्च, आनन्दधामनि तत्र व्यथैवासीत् ॥ किञ्च "मानसीम् " – इति
विशेषणात् – सुखदुःखयोः मनोधर्मत्वेन वासनाधीनत्वात्, न बाह्यवस्तुपारतन्त्र्य मिष्यपि
चितं भवति ॥
 
2