This page has been fully proofread once and needs a second look.

अतिचातुर्यपर्यवस्थापितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीतान्वयशङ्काकलङ्कनिरङ्कुशकुशल-
जनालंकृतसप्तमकक्ष्यं, प्रसङ्ख्यानपरासङ्घ्यभृग्वङ्गिरोवसिष्ठादिगरिष्ठाधिकारिकमुनिमण्डल- मण्डितास्थानमण्टपम्, अपदं विपदाम्, अगोचरं वाचां, [^१]अनाशङ्कनीयमर्वाचां, अगम्यमाचारमात्रशरणैः, [^२]
 
[Commentary]

ब्रह्मपुर' इत्यादिश्रुतिसिद्धा । वैश्वानरोपासना तु 'एष वै सुतेजा आत्मा वैश्वान-
रोऽयं त्वमात्मानमुपास्स' इति छान्दोग्यश्रुतिसिद्धा । कक्ष्याशब्द:दः शुद्धान्त-
शब्दपर्यायोऽप्यस्ति । 'कक्ष्यान्तरेऽपि शुद्धान्त' इत्यमराच्चेति विवेकः ।
अतिदूरं विसृष्टाः त्यक्ता ये अनुश्रवेण वेदेन प्रोक्ता आनुश्रविकाः ते च
ते विषयाः त एवामिषाः भोम्ग्यवस्तूनि । 'आमिषं त्वस्त्रियां मांस उत्कोचे
भोम्यवस्तुनि' इति नानार्थरत्नमाला । तेषु रिरंसा रन्तुं क्रीडितुमिच्छा
रिरंसा सा च गन्धस्स्मयः स च तौ यैस्ते । 'गन्धो गन्धकसम्बन्धामोदले-
शस्मयेषु च ' इति नानार्थरत्नमाला । विविघा ये परमहंसाः संन्यासिनः ।
'हंसः परमहंसश्च कुटीचकबहूदकौ ।' इति संन्यासिकथायां स्रुसूतसंहितावचनात् ।
तैरवतं सिता अलङ्कृता षष्ठी कक्ष्या यस्य तत् । अतिचातुर्येण अतिकौशलेन,
पर्यवस्थापितं सुनिष्कृष्य निर्णीतं यदनुश्रवाणां वेदानां, तात्पर्यम् अभिप्रायः
ब्रह्मपरत्वमिति यावत् । तस्य पर्यालोचनया परिभावनया, अनुसन्धानेनेति
यावत् । अपनीतौ सन्त्याजितौ यौ विपरीतः व्यत्यस्तः यः अन्वयः श्रुतपदानां
योजना स च शङ्का सन्देहस्सा च ते एव कळङ्कौ यैस्ते तथाविघाधा ये निरङ्कुशा
निर्निरोधाः, कुशलाश्चतुराश्च जनाः तैरलङ्कृता, सप्तमी कक्ष्या यस्य तत् ।
प्रसङ्ख्याने निर्विकल्पकसमाधौ प्रकृतिपुरुष विवेकसाक्षात्कारे वा 'प्रसङ्ख्यानेऽप्य-
कुसीदस्य' इति पातञ्जलसूत्रे तद्व्याख्यातृभिः प्रसङ्ख्यानपदस्य एतदर्थकत्वाभि-
धानात् । पराः आसक्ताः, ये असङ्ख्याः सङ्ख्या रहिताः भृम्बग्वङ्गिरोसिष्ठादयो
गरिष्ठाश्श्रेष्ठा आधिकारिका मुनयः तेषां मण्डलेन समूहेन । 'पूगो वितानं
 
1.[^१] अनाशंसनीयमर्वाचां प्रमाणानाम् इति पाठान्तरम् ।
 
2.
 
अनाशंसनीयमर्वाचां प्रमाणानाम् इति पाठान्तरम् ।
[^२] " आचारमात्रशरणैः अगम्यम्"
 
-- इत्यादिना विशेषणजातेन ब्रह्मलोकस्य
 
दानतपोयागाहवादिकर्मप्राप्यता नैव संभावनीया
 
9
 
स्वर्गभोगवत्, अपि तु दहरवैश्वान-
रशाण्डिल्यादिस गुणब्रह्मोपासनामात्रलभ्यं तत्, आहत्य विधानात् पञ्चाग्निविद्यारूपा-
ब्रह्मोपासनालभ्यमपि न क्रममुक्तिफलकम्, अपि तु " इमं मानवमावर्तं नावर्तन्ते "
-- इति श्रुतिबलात् मानवावसाने अवसानवत् इत्यादि विषयजातं संगृहीतं वेदितम्यम् ॥
 
-
 
"
 
-
 
.