This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
अतिचातुर्यपर्यवस्थापितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीतान्वयशङ्का
 
१२४
 
कलङ्कनिरङ्कुशकुशल-
जनालंकृतसप्तमकक्ष्यं, प्रसङ्ख्यानपरासङ्घ्यभृग्वङ्गि-
रोवसिष्ठादिगरिष्ठाधिकारिकमुनि मण्डल- मण्डितास्थानमण्टपम्, अपदं विप-
दाम्, अगोचरं वाचां, '[^१]अनाशङ्कनीयमर्वाचां, अगम्यमाचार मात्रशरणैः, 2

ब्रह्मपुर' इत्यादिश्रुतिसिद्धा । वैश्वानरोपासना तु 'एष वै सुतेजा आत्मा वैश्वान-

रोऽयं त्वमात्मानमुपास्स' इति छान्दोग्यश्रुतिसिद्धा । कक्ष्याशब्द: शुद्धान्त-

शब्दपर्यायोऽप्यस्ति । 'कक्ष्यान्तरेऽपि शुद्धान्त' इत्यमराचेति विवेकः ।

अतिदूरं विसृष्टाः त्यक्ता ये अनुश्रवेण वेदेन प्रोक्ता आनुश्रविकाः ते च

ते विषयाः त एवामिषाः भोम्यवस्तूनि । 'आमिषं त्वस्त्रियां मांस उत्कोचे

भोम्यवस्तुनि' इति नानार्थरत्नमाला । तेषु रिरंसा रन्तुं क्रीडितुमिच्छा

रिरंसा सा च गन्धस्स्मयः स च तौ यैस्ते । 'गन्धो गन्धकसम्बन्धामोदले-

शस्मयेषु च ' इति नानार्थरत्नमाला । विविघा ये परमहंसाः संन्यासिनः ।

'हंसः परमहंसश्च कुटीचकबहूदकौ ।' इति संन्यासिकथायां स्रुतसंहितावचनात् ।

तैरवतं सिता अलङ्कृता षष्ठी कक्ष्या यस्य तत् । अतिचातुर्येण अतिकौशलेन,

पर्यवस्थापित सुनिष्कृष्य निर्णीतं यदनुश्रवाणां वेदानां, तात्पर्यम् अभिप्रायः

ब्रह्मपरत्वमिति यावत् । तस्य पर्यालोचनया परिभावनया, अनुसन्धानेनेति

यावत् । अपनीतौ सन्त्याजितौ यौ विपरीतः व्यत्यस्तः यः अन्वयः श्रुतपदानां

योजना स च शङ्का सन्देहस्सा च ते एव कळकौ यैस्ते तथाविघा ये निरङ्कुशा

निर्निरोधाः, कुशलाश्चतुराश्च जनाः तैरलङ्कृता, सप्तमी कक्ष्या यस्य तत् ।

प्रसङ्ख्याने निर्विकल्पकसमाधौ प्रकृतिपुरुष विवेकसाक्षात्कारे वा 'प्रसङ्ख्यानेऽप्य-

कुसीदस्य' इति पातञ्जलसूत्रे तव्याख्यातृभिः प्रसङ्ख्यानपदस्य एतदर्थकत्वाभि-

धानात् । पराः आसक्ताः, ये असङ्ख्याः सङ्ख्या रहिताः भृम्बङ्गिरोबसिष्ठादयो

गरिष्ठाइ श्रेष्ठा आधिकारिका मुनयः तेषां मण्डलेन समूहेन । 'पूगो वितानं
 

 
1.
 

 
2.
 

 
अनाशंसनीयमर्वाचां प्रमाणानाम् इति पाठान्तरम् ।

" आचारमात्रशरणैः अगम्यम्"
 

 
इत्यादिना विशेषणजातेन ब्रह्मलोकस्य
 

 
दानतपोयागाहवादिकर्मप्राप्यता नैव संभावनीया
 

 
9
 

 
स्वर्गभोगवत् अपि तु दहरवैश्वान-

रशाण्डिल्यादिस गुणब्रह्मोपासनामात्रलभ्यं तत्, आहत्य विधानात् पञ्चाग्निविद्यारूपा-

ब्रह्मोपासनालभ्यमपि न क्रममुक्तिफलकम् अपि तु " इमं मानवमावर्त नावर्तन्ते "

इति श्रुतिबलात् मानवावसाने अवसानवत् इत्यादि विषयजातं संगृहीतं वेदितम्यम् ॥
 

 
-
 

 
"
 

 
-
 

 
.