This page has been fully proofread twice.

विद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यम्, अतिविचित्रतरत्रयीशिखरोपपादितोपासनाभेदवासनासनाथमुनियूथदर्शिताश्चर्यतुर्यकक्ष्यं, अतिरहस्यaवैश्वानरदहरादिविद्यापरिचयानवद्यमहर्षिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं,
अतिदूरविसृष्टदृष्टानुश्रविकविषयामिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यं,
 
[commentary]
 
दर्शनानि शास्त्राणि । 'दर्शनं दर्पणस्वप्नशास्त्रबुद्ध्यक्षिदृष्टिषु' इति नानार्थरत्नमाला । तेषु यानि तत्त्वानि परमार्थाः सिद्धान्ताः तेषामवमर्शो भावनं पर्यालोचनमिति यावत् । अस्मिन् यद्व्यसनं विफलोद्यमः । 'व्यसनं त्वशुभे शक्तौ विपत्तौ निष्फलोद्यमे' इति नानार्थरत्नमाला । तेन कर्शिताः क्लेशं प्राप्ताः कणादश्च कपिलश्च पतञ्जलिश्च त एव प्रमुखाः प्रभृतयो येषां ते तथाविधाः । ये विद्वांसः तेषामुद्दामाः श्रेष्ठाः या जल्पकथाः [^१]विजिगीषुकथाः तासां घोषेण कलकलेन भूषिता अलङ्कृता तृतीयकक्ष्या यस्य तत् । अतिविचित्रतराः अत्यन्तपरस्परविलक्षणाः यास्त्रयीशिखरैर्वेदान्तैरुपपादिताः प्रतिपादिता उपासनास्तासां भेदाः प्रकाराः तेषां वासनया संस्कारेण सनाथानि सहितानि यानि मुनीनां यूथानि सङ्घाः तैर्दर्शितम् आश्चर्यं यस्याम् । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । तथाविधा तुरीया चतुर्थी कक्ष्या गृहप्रकोष्ठभागो यस्य तत् । 'कक्ष्याकच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठके' इति नानार्थरत्नमाला । अतिरहस्यानि अतिगोप्याः, अप्रकाशनीया इति यावत् । याः दहरवैश्वानरौ आदी
यासां तास्तथाविधाः विद्या उपासनाः तासां परिचयेन दृढाभ्यासेन अनवद्याः निर्दुष्टाः ये महर्षयः तैर्दर्शिता ये उपासनानां विभिन्नचिदनन्तरितैकजातीयचिद्धारालक्षणानां प्रपञ्चा[^२] विस्तृतयः स्तोमा वा यस्यां सा । 'प्रपञ्चो विस्तृतौ स्तोमे रचनायां विपर्यये' इति नानार्थरत्नमाला । तथाभूता पञ्चमी कक्ष्या यस्य तत् । अत्र दहरोपासना नाम 'अथ यदिदमस्मिन्
 
a. "वैश्वानरदहरादि" इति मूलपाठः, "दहरवैश्वानरादि" इति व्याख्यापाठः ।
 
[^१] तत्त्वबुभुत्सोः कथा वादः, विजिगीषोः कथा जल्पः, स्वपक्षस्थापनाहीनपरपक्षनिराकरणं वितण्डा इत्यादिर्भेदः ॥
 
[^२] पचिधातोः विस्तारवचनार्थकात् चौरादिकात्, व्यक्तिकरणार्थकात् भौवादिकाच्च निष्पन्नोऽयमच्प्रत्ययान्तः प्रपूर्वकतायां प्रपञ्चशब्दः ॥ "पञ्चपात्रम्" इत्यादौ सुप्रसिद्धः ॥ 'डु पचष् पाके' इत्यन्यो धातुः -- तण्डुलं पचतीत्यादौ व्यक्तः ॥ प्रकरणपञ्चिका, इत्यादौ गुरुमतग्रन्थनाम्न्यपि सुप्रसिद्धः ॥