This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः
 
1
 
विद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यम्, अतिविचित्रतरत्रयीशिखरोप-
पादितोपासनाभेदवासनासनाथमुनियूथदर्शिताश्चर्यतुर्यकक्ष्यं, अतिरहस्य-
'
aवैश्वानरदहरादिविद्यापरिचयानवद्यमहर्षिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं,

अतिदूरविसृष्टदृष्टानुश्रविकविषयामिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यं,

 
[commentary]
 
दर्शनानि शास्त्राणि । 'दर्शनं दर्पणस्वप्नशास्त्रबुद्धचध्यक्षिदृष्टिषु' इति नानार्थरत्न-
माला । तेषु यानि तत्त्वानि परमार्थाः सिद्धान्ताः तेषामवमर्शो भावनं पर्या-
लोचनमिति यावत् । अस्मिन् यद्व्यसनं विफलोद्यम:मः । 'व्यसनं त्वशुभे शक्तौ
विपत्तौ निष्फलोद्यमे' इति नानार्थरत्नमाला । तेन कर्शिताः क्लेशं प्राप्ताः
कणादश्च कपिलश्च पतञ्जलिश्च त एव प्रमुखाः प्रभृतयो येषां ते तथाविधाः ।
ये विद्वांसः तेषामुद्दामाः श्रेष्ठा :ठाः या जल्पकथा : थाः [^१]विजिगीषुकथा :थाः तासां घोषेण
कलकलेन भूषिता अलङ्कृता तृतीयकक्ष्या यस्य तत् । अतिविचित्रतराः
अत्यन्तपरस्परविलक्षणा:णाः यास्त्रयीशिखरैर्वेदान्तैरुपपादिताः प्रतिपादिता उपासना-
स्तासां भेदाः प्रकाराः तेषां वासनया संस्कारेण सनाथानि सहितानि
यानि मुनीनां यूथानि सङ्घाः तैर्दर्शितम् आश्चर्यं यस्याम् । 'विस्मयोऽद्भुत-
माश्चर्यम्' इत्यमरः । तथाविधा तुरीया चतुर्थी कक्ष्या गृहप्रकोष्ठभागो यस्
तत् । 'कक्ष्याकच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठ के' इति नानार्थरत्नमाला ।
अतिरहस्यानि अतिगोप्याः, अप्रकाशनीया इति यावत् । याः दहरवैश्वानरौ आदी

यासां तास्तथाविधाः विद्या उपासनाः तासां परिचयेन दृढाभ्यासेन अनवद्याः
निर्दुष्टाः ये महर्षयः तैर्दर्शिता ये उपासनानां विभिन्नचिदनन्तरितैकजातीय-
चिद्धारालक्षणानां प्रपञ्चा[^२] विस्तृतयः स्तोमा वा यस्यां सा । 'प्रपञ्चो
विस्तृतौ स्तोमे रचनायां विपर्यये' इति नानार्थरत्नमाला । तथाभूता
पञ्चमी कक्ष्या यस्य तत् । अत्र दहरोपासना नाम 'अथ यदिदमस्मिन्
 
2
 

 
a.
 
"वैश्वानर दहरादि " इति मूलपाठः, "दहरवैश्वानरादि " इति व्याख्यापाठः ।
1.

 
[^१]
तत्त्वबुभुत्सोः कथा वादः, विजिगीषोः कथा जल्पः, स्वपक्षस्थापनाही नपरपक्ष-
निराकरणं वितण्डा इत्यादिर्भेदः ॥
 
2.

 
[^२]
पचिधातोः विस्तारवचनार्थकात् चौरादिकात्, व्यक्तिकरणार्थकात् भौवादि-
काञ्च्च निष्पक्षोन्नोऽयमच्प्रत्ययान्तः प्रपूर्वकतायां प्रपञ्चशब्दः ॥ '"पञ्चपात्रम्" इत्यादौ
सुप्रसिद्धः ॥ 'डु पचष् पाके' इत्यन्यो धातुः -- तण्डुलं पचतीत्यादौ व्यक्तः ॥ प्रकरणपञ्चिका,
इत्यादौ गुरुमतप्ग्रन्नाम्न्यपि सुप्रसिद्धः ॥