2023-06-05 16:39:59 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
लोकाधिकारिकारितसम्मर्दबहिर्द्वारवितर्दिकाभागम्, आगन्तुकगन्धर्व-
किन्नराप्सरस्समारब्धतौर्यत्रिक मौखर्यपू रितप्रथमकक्ष्यम्, अनभिसन्धि-
मत्कर्मयोगनिर्मलकर्मन्दिवृन्द परिकर्मि तद्वितीयकक्ष्यम्, अतिगहनन्याय-
साङ्ख्ययोगादिदर्शनतत्त्वावमर्शव्यसनकर्शितकणादकपिलपतञ्जलिप्रमुख-
१२२
"
सजातीयप्रत्ययप्रवाहात्मिकाः, तन्मयैर्गोपुरैः । 'पुरद्वारं तु गोपुरम्' इत्यमरः ।
आत्मनः ब्रह्मणो, या उपासना विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहाः,
तन्मयीभिः तत्स्वरूपाभिः कक्ष्याभिः हर्म्यप्रकोष्ठप्रदेशैः । 'कक्ष्या प्रकोष्ठे
हर्म्यादेः' इत्यमरः । प्रणवः ओङ्कारः, तन्मयेन तत्स्वरूपेण । 'ओकारप्रणवौ
समौ' इत्यमरः । आस्थानमण्टपेन सभामण्टपेन च । 'सभासमितिसंसद: ।
आस्थानी क्लीबमास्थानम् ' इत्यमरः । परिशोभितं सर्वतः प्रकाशितम् । अत्रेद-
मवधेयम् - उपासना नाम विजातीयज्ञानाव्यवहितसजातीयज्ञानधारा । सामान्यत
उपासना द्विविधा; आभ्युदयिकोपासनात्मोपासना भेदात् । तत्रादित्यपुरुषोपासना-
क्षिपुरुषोपासनादयः आभ्युदयिकोपासनाः । दहरोपासनाशाण्डिल्योपासनादयः
आत्मोपासना इति । निजनिजानां स्वस्वानां कार्याणां निवेदनावसरं विज्ञापनासमयं
प्रतीक्षन्ते अन्विच्छन्तीति प्रतीक्षिण: ये तत्तल्लोकानामधिकारिणः अधिकारिपुरुषाः
तैः कारित: अनुष्ठापित सम्मर्दस्संबाधः येषु ताः तथाविधाः । बहिर्द्वाराणां
वेदिकानाम् । 'द्वारमात्रेऽपि गोपुरम्' इत्यमरः । भागाः प्रदेशाः यस्य तत्
आगन्तव एवागन्तुका: गृहागताः । 'स्यादावेशिक आगन्तुः' इत्यमरः । ये
गन्धर्वाश्च किन्नराश्च अप्सरसश्च ताः ताभिस्समारब्धस्य तौर्यत्रिकस्य नृत्तगीत-
वाद्यत्रयस्य यन्मौखर्यम् अनुरणनध्वनिः तेन पूरिता भरिता, प्रथमकक्ष्या प्रथम-
हर्म्यप्रकोष्ठभागो यस्य तत्तथाभूतम् । 'कक्ष्या प्रकोष्ठे हर्म्यादेः' इत्यमरः ।
अभिसन्धि: फलेच्छा एषां ते अभिसन्धिमन्तः ते न भवन्तीत्यनभिसन्धिमन्तः
ते च ते कर्मैव योगः तेन निर्मला: शुद्धान्त:करणा ये कर्मन्दिनो भिक्षवः ।
'भिक्षुः परित्राट् कर्मन्दी' इत्यमरः । तेषां बृन्देन समूहेन, परिकर्मिता
परिमण्डिता द्वितीयकक्ष्या द्वितीयप्रकोष्ठभागो यस्य तत् । अति अत्यन्तं, गहनं
दुःखं अभ्यासकाले येषां तानि अतिगहनानि । 'गहनं वनदुःखयोः' इति
नानार्थरत्नमाला । अथवा अतिगहनानि दुःखकराणि, दुरवगाहानीति
तात्पर्यत इत्यर्थः । न्यायश्च साङ्ख्यं च योगश्च ते आदयो येषां तानि यानि