2023-09-04 10:37:09 by Bharadwajraki
This page has been fully proofread twice.
शेषसारैरिव विलक्षणैश्शब्दादिभिर्विषयैरुपस्कृतम्[^१], अनुश्रवमयैः[^२] प्राकारैराभ्युदयिकोपासनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवमयेन चास्थानमण्टपेन परिशोभितम् निजनिजकार्यनिवेदनावसरप्रतीक्षितत्त-
[Ccommentary]
एव, तत्र सञ्चरतां पुनः पुनर्गमनागमने भवतः तेषां ब्रह्मलोकप्राप्तिर्नास्ति । ये तूपासकास्तेषामर्चिरादिमार्ग एव, तत्र गतानां पुनरावृत्तिर्नास्ति, क्रमेण ब्रह्मलोकप्राप्तिश्च भवति । तथा च श्रुतिः -- "तद्य [^३]इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयतीत्येष देवयानः पन्थाः" इति । 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान्हैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानाममृतं देवा भक्षयन्ति, तस्मिन् यावत्संपातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त' इति । अशेषाणि समस्तानि, यानि भुवनानि लोकाः, तेषां सर्गादवशिष्यन्त इत्यवशेषाः अवशिष्टास्तथाविधाश्च ते साराश्च तैः । 'सारो बले स्थिरांशे च' इत्यमरः । अत एव विलक्षणैः प्रकृष्टैः, विजातीयैरिति यावत् ।
शब्दादिभिर्विषयैः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः । उपस्कृतम् । अनुसृत्य श्रूयन्त इत्यनुश्रवाः वेदाः तन्मयैः तद्विकारैः प्राकारैस्सालैः । 'प्राकारो वरणस्साल' इत्यमरः । अभ्युदयः अन्नब्रह्मवर्चसादिलाभः, प्रयोजनं यासां ताः आभ्युदयिकाः, या उपासनाः विजातीयप्रत्ययानन्तरित-
[^१] 'संपरिभ्यां करोतौ भूषणे' 'समवाये च' 'उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च' (पा. सू. ६.१.१३७, १३८, १३९) इत्यनेन उपात्कृञः भूषणार्थे सुटि 'उपस्कृतम्' इति रूपम् ॥
[^२] 'मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः' (पा. सू. ४.३.१४३) इत्यनेन विकारे मयड्विहितः -- अश्ममयम् इत्यादिवत् ॥ 'तत्प्रकृतवचने मयट्' (पा.सू. ५.४.२१) इत्यत्र 'भावेऽधिकरणे वा ल्युट्वचनम्' इति । आद्ये तत्पदं व्यर्थं सत् वाक्यभेदेन प्राचुर्याभावेऽपि अत्यन्तस्वार्थिकमयडर्थम्, तेन चिन्मयं=चित्स्वरूपं ब्रह्म' इत्याद्यपि सिद्धम् -- इति व्याख्यानात् स्वरूपार्थेऽपि मयट् ॥
[^३] बृहदारण्यके छान्दोग्ये च पञ्चाग्निविद्यायां प्रसिद्धेयं श्रुतिः ॥
[