2023-07-27 04:46:39 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  शेषसारैरिव विलक्षणैश्शब्दादिभिर्विषयैरुपस्कृतम्[^१], अनुश्रवमयैः[^२] प्राकारैराभ्युदयिकोपासनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवमयेन चास्थानमण्टपेन परिशोभितम् निजनिजकार्यनिवेदनावसरप्रतीक्षितत्त-
  
  
  
   
  
  
  
[Commentary]
   
  
  
  
एव, तत्र सञ्चरतां पुनः पुनर्गमनागमने भवतः तेषां ब्रह्मलोकप्रा प्तिर्नास्ति ।
  
  
  
   ये तूपासकास्तेषामर्चिरादिमार्ग एव, तत्र गतानां पुनरावृत्तिर्नास्ति, क्रमेण
  
  
  
   ब्रह्मलोकप्राप्तिश्च भवति । तथा च श्रुतिः –-- "तद्य '[^३]इत्थं विदुर्ये चेमेऽरण्ये
  
  
  
   श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्य र्चिषोऽहरहह्न आपूर्यमाणपक्षमा-
  
  
  
  पूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्यस्संवत्सरं संवत्सरादादित्य -
  
  
  
  मादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयतीत्येष
  
  
  
   देवयानः पन्थाः" इति । 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
  
  
  
घू धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान्
  
  
  
  हैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमा काशाच्चन्द्रम-
  
  
  
  समेष सोमो राजा तद्देवानाममृतं देवा भक्षयन्ति, तस्मिन् यावत्संपात मुषित्वाथैतमे-
  
  
  
बावाध्वानं पुनरावर्तन्त' इति । अशेषाणि समस्तानि, यानि भुवनानि लोकाः, तेषां
  
  
  
   सर्गादवशिष्यन्त इत्यवशेषाः अवशिष्टास्तथाविघाधाश्च ते साराश्च तैः । 'सारो
  
  
  
   बले स्थिरांशे च' इत्यमरः । अत एव विलक्षणैः प्रकृष्टै:टैः, विजातीयैरिति यावत् ।
  
  
  
शब्दादिभिर्विषयैः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः ।
  
  
  
   उपस्कृतम् । अनुसृत्य श्रूयन्त इत्यनुश्रवाः वेदाः तन्मयैः तद्विकारैः प्राकारै-
  
  
  
  स्सालैः । 'प्राकारो वरणस्साल' इत्यमरः । अभ्युदय:यः अन्नब्रह्मवर्चसादिलाभः,
  
  
  
   प्रयोजनं यासां ताः आभ्युदयिकाः, या उपासना:नाः विजातीयप्रत्ययानन्तरित-
  
  
  
  1.
  
  
  
[^१] 'संपरिभ्यां करोतौ भूषणे' 'समवाये च ' ' ' 'उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु
  
  
  
   च' (पा. 6-1-137सू. ६.१.१३७, 138१३८, 139१३९) इत्यनेन उपात्कृञः भूषणार्थे सुटि 'उपस्कृतम्' इति
  
  
  
   रूपम् ॥
  
  
  
   
  
  
  
  2. 'मयडे[^२] 'मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः' (पा. सू. 4-3-143४.३.१४३) इत्यनेन
  
  
  
   विकारे मयडिड्विहितः -- अश्ममयम् इत्यादिवत् ॥ 'तत्प्रकृतवचने मयट्' (पा.सू. 5-4-21 ५.४.२१)
  
  
  
   इत्यत्र 'भावेऽधिकरणे वा ल्युट्वचनम्' इति । आद्ये तत्पदं व्यर्थथं सत् वाक्य मेभेदेन प्राचु-
  
  
  
  र्याभावेऽपि अत्यन्तस्वार्थिकमयडर्थम्, तेन चिन्मयं = चित्स्वरूपं ब्रह्म' इत्याद्यपि सिद्धम् -
  
  
  
  - इति व्याख्यानात् स्वरूपार्थेऽपि मयट् ॥
  
  
  
   
  
  
  
  3.[^३] बृहदारण्यके छान्दोग्ये च पञ्चाग्निविद्यायां प्रसिद्धेयं श्रुतिः ॥
  
  
  
   
  
  
  
N. - 16
   
  
  
  
  
[Commentary]
एव, तत्र सञ्चरतां पुनः पुनर्गमनागमने भवतः तेषां ब्रह्मलोकप्रा
घू
बा
शब्दादिभिर्विषयैः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः ।
[^१] 'संपरिभ्यां करोतौ भूषणे' 'समवाये च
N. - 16