2023-07-27 04:34:01 by Bharadwajraki
This page has not been fully proofread.
१२१
अनुश्रवमयैः प्राकारै-
"
[Commentary]
एव, तत्र सञ्चरतां पुनः पुनर्गमनागमने भवतः तेषां ब्रह्मलोकप्रा तिर्नास्ति ।
ये तूपासकास्तेषामर्चिरादिमार्ग एव, तत्र गतानां पुनरावृत्तिर्नास्ति, क्रमेण
ब्रह्मलोकप्राप्तिश्च भवति । तथा च श्रुतिः – "तद्य 'इत्थं विदुर्ये चेमेऽरण्ये
श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्य र्चिषोऽहरह आपूर्यमाणपक्षमा-
पूर्यमाणपक्षाद्यान् षडुदङेति मासांस्तान् मासेभ्यस्संवत्सरं संवत्सरादादित्य -
मादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयतीत्येष
देवयानः पन्थाः" इति । 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
घूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान्
हैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमा काशाच्चन्द्रम-
समेष सोमो राजा तद्देवानाममृतं देवा भक्षयन्ति, तस्मिन् यावत्संपात मुषित्वाथैतमे-
बाध्वानं पुनरावर्तन्त' इति । अशेषाणि समस्तानि, यानि भुवनानि लोकाः, तेषां
सर्गादवशिष्यन्त इत्यवशेषाः अवशिष्टास्तथाविघाश्च ते साराश्च तैः । 'सारो
बले स्थिरांशे च' इत्यमरः । अत एव विलक्षणैः प्रकृष्टै:, विजातीयैरिति यावत् ।
शब्दादिभिर्विषयैः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इत्यमरः ।
उपस्कृतम् । अनुसृत्य श्रूयन्त इत्यनुश्रवाः वेदाः तन्मयैः तद्विकारैः प्राकारै-
स्सालैः । 'प्राकारो वरणस्साल' इत्यमरः । अभ्युदय: अन्नब्रह्मवर्चसादिलाभः,
प्रयोजनं यासां ताः आभ्युदयिकाः, या उपासना: विजातीयप्रत्ययानन्तरित-
1. 'संपरिभ्यां करोतौ भूषणे' 'समवाये च ' ' उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु
च' (पा. 6-1-137, 138, 139) इत्यनेन उपात्कृञः भूषणार्थे सुटि 'उपस्कृतम्' इति
रूपम् ॥
2. 'मयडेतयोर्भाषायामभक्ष्याच्छादनयोः' (पा. सू. 4-3-143) इत्यनेन
विकारे मयडिहितः - अश्ममयम् इत्यादिवत् ॥ 'तत्प्रकृतवचने मयट्' (पा.सू. 5-4-21 )
इत्यत्र 'भावेऽधिकरणे वा ल्युट्वचनम्' इति । आद्ये तत्पदं व्यर्थ सत् वाक्य मेदेन प्राचु-
र्याभावेऽपि अत्यन्तस्वार्थिकमयडर्थम्, तेन चिन्मयं = चित्स्वरूपं ब्रह्म' इत्याद्यपि सिद्धम् -
इति व्याख्यानात् स्वरूपार्थेऽपि मयट् ॥
3. बृहदारण्यके छान्दोग्ये च पञ्चाग्निविद्यायां प्रसिद्धेयं श्रुतिः ॥
N. - 16