This page has been fully proofread twice.

मिव, विमलभास्वरप्रभावभासितनभोविभागम्, अपास्तकळङ्कानुषङ्गतयेव
धूमादिमार्गaचङ्क्रमपङ्किलचरणपशुजनानाक्रमणीयं, अशेषभुवनसर्गाव-
 
[commentary]
 
इति यावत् । ये दुग्धसागरस्य क्षीरसमुद्रस्य, ऊर्मयस्तरङ्गाः, तैर्निर्मितं विरचितमिव स्थितम् । चिरं निपातेन निपतनेन, घनीभूतः पिण्डीभूतः, शरच्चन्द्रचन्द्रिकया विकीर्णः व्याप्तश्च, यो नीहारः हिमं, तस्य यः सारः, तेन साधितं निर्मितमिव स्थितम् । धवळतमत्वादिति भावः । त्रैविक्रमः त्रिविक्रमस्य
भगवतः सम्बन्धी, यश्चरणः, तस्य क्रमेण विन्यासेन, विंविद्धं विस्फुटितं, यद्विध्यण्डं ब्रह्माण्डं, तस्य कपालात् कटाहसदृशावयवात्, निरर्गळं निर्निरोधं यथा तथा, निर्गळन्ती निपतन्ती, या अलकनन्दा गङ्गा, तस्याः निपातेन निपतनेन, धौतं क्षाळितमिव स्थितम् । विमलस्य रूपान्तरासंवलितस्य, भास्वरस्य शुक्लभास्वरस्य शुक्लभास्वरवर्णस्य, प्रभाभिर्दीप्तिभिः, अवभासितः प्रकाशितः, नभोविभागो यस्य सः तथाभूतम् । अपास्तो निरस्तः, कळङ्कस्य अङ्कस्य, अनुषङ्गः सम्बन्धः, तस्य
भावस्तत्ता, तयेव । हेतूत्प्रेक्षालङ्कारः । धूमः आदिर्येषां ते धूमादयः, त एव मार्गस्सरणिः, तस्मिन् [^१]चङ्क्रमणेन मुहुर्मुहुर्गमनेन, [^२]पङ्किलाः पङ्कवन्तः। 'पङ्कः कर्दमपापयोः' इति विश्वः । तथाविधाश्चरणाः येषां ते तथाभूताः, ये पशुजनाः पशुकल्पा जनाः, तैरनाक्रमणीय प्राप्तुमशक्यम् । अत्रेदं बोध्यम् -- देवयानः पितृयाण इति द्विविधः पन्थाः तस्य देवयानस्य अर्चिरादिमार्ग इत्येका संज्ञा, पितृयाणस्य धूमादिमार्ग इत्येका संज्ञा, ये तु केवलं कर्मिणस्तेषां [^३]धूमादिमार्ग
 
a. 'चङ्क्रम' -- मूलपाठः पचादित्वादजन्तः, 'चङ्क्रमणं' -- व्याख्यापाठः भावे ल्युडन्तः ॥
 
[^१] 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (पा. सू. ३.१.२२) इति सूत्रेण पौनःपुन्ये भृशार्थे वा यङि 'नुगतोऽनुनासिकान्तस्य' (पा. सू. ७.४.८५) इत्यनेनाभ्यासस्य नुकि रूपम् ॥
 
[^२] 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' (पा. सू. ५.२.००) इति मत्वर्थीयः पङ्कशब्दात् इलच्प्रत्ययः, पिच्छिलवत् ॥
 
[^३] धूमो, रात्रिः, कृष्णपक्षः, दक्षिणायनम्, पितृलोकः, आकाशः, चन्द्रमाः -- इति सप्तस्थानघटितो मार्गः धूमयानः ॥ अर्चिः (ज्योतिः) अहः, शुक्लः, उत्तरायणम्, संवत्सरः, संवत्सरात् देवलोकः, वायुलोकः, आदित्यः, चन्द्रमाः, विद्युत् (१०) ततः अमानवपुरुषः नेता, इन्द्रवरुणप्रजापतिब्रह्मलोकान् प्रतीति चतुर्दशस्थानघटितः अर्चिरादियानः ॥ विद्युल्लोकादुपरि प्रतीकोपासकानां नयनममानवेन नास्तीत्यादि शारीरकमीमांसायां चतुर्थतृतीयपादे उपसंहारन्यायेन निर्णीतं द्रष्टव्यम् ॥