This page has been fully proofread once and needs a second look.

१२०
 
नीलकण्ठविजये सव्याख्याने
 
मिव, विमलभास्वरप्रभावभासितनभोविभागम्, अपास्तकळङ्कानुषङ्गतयेव

धूमादिमार्ग'aचङ्क्रमपङ्किलचरणपशुजनानाक्रमणीयं, अशेषभुवनसर्गाव-

 
[commentary]
 
इति यावत् । ये दुग्धसागरस्य क्षीरसमुद्रस्य, ऊर्मयस्तरङ्गाः, तैर्निर्मितं
विरचितमिव स्थितम् । चिरं निपातेन निपतनेन, घनीभूतः पिण्डीभूतः,
शरच्चन्द्रचन्द्रिकया विकीर्ण:णः व्याप्तश्च, यो नीहार:रः हिमं, तस्य यः सारः, तेन
साघिधितं निर्मितमिव स्थितम् । धवळतमत्वादिति भावः । त्रैविक्रमः त्रिविक्रमस्य

भगवतः सम्बन्धी, यश्चरणः, तस्य क्रमेण विन्यासेन, विंद्धं विस्फुटितं, यद्विध्यण्डं
ब्रह्माण्डं, तस्य कपालात् कटाहसदृशावयवात्, निरर्गळं निर्निरोघंधं यथा तथा, निगळ -
न्ती निपतन्ती, या अलकनन्दा गङ्गा, तस्याः निपातेन निपतनेन, धौतं क्षाळितमिव
स्थितम् । विमलस्य रूपान्तरासंवलितस्य, भास्वरस्य शुक्लभास्वरस्य शुक्लभास्व-
रवर्णस्य, प्रभाभिर्दीप्तिभिः, अवभासितः प्रकाशितः, नभोविभागो यस्य सः
तथाभूतम् । अपास्तो निरस्तः, कळङ्कस्य अङ्कस्य, अनुषङ्गः सम्बन्धः, तस्य

भावस्तत्ता, तयेव । हेतूत्प्रेक्षालङ्कारः । धूमः आदिर्येषां ते धूमादयः, त एव
ते
मार्गस्सरणिः, तस्मिन् '[^१]ङ्क्रमणेन मुहुर्मुहुर्गमनेन, [^२]पङ्किलाः पङ्कवन्तः। 'पङ्क:
कः कर्दमपापयोः' इति विश्वः । तथाविधाश्चरणाः येषां ते तथा भूताः, ये पशुजना:
नाः पशुकल्पा जनाः, तैरनाक्रमणीय प्राप्तुमशक्यम् । अत्रेदं बोध्यम् --
देवयानः
पितृयाण इति द्विविधः पन्थाः तस्य देवयानस्य अर्चिरादिमार्ग इत्येका संज्ञा,
पितृयाणस्य धूमादिमार्ग इत्येका संज्ञा, ये तु केवलं कर्मिणस्तेषां '[^३]धूमादिमार्ग
 

 
a. 'चङ्क्रम' -- मूलपाठ:ठः पचादित्वादजन्तः, 'चङ्क्रमणं' -- व्याख्यापाठ:ठः भावे
ल्युडन्तः ॥
 
1.

 
[^१]
'धातोरेकाचो हलादे:देः क्रियासमभिहारे यड्ङ्' (पा. सू. 3-1-22३.१.२२) इति
सूत्रेण पौन:नःपुन्ये मृभृशार्थे वा यहिङि 'नुगतोऽनुनासिकान्तस्य' (पा. सू. 7-4-85७.४.८५) इत्यने-
नाभ्यासस्य नुकि रूपम् ॥
 
2.

 
[^२]
'लोमादिपामादिपिच्छादिभ्यः शनेलचः' (पा. सू. 5-2-200५.२.२००) इति
मत्वर्थीयः पङ्कशब्दात् इलच्प्रत्ययः, पिच्छिलवत् ॥
 
3.

 
[^३]
धूमो, रात्रिः, कृष्णपक्ष:षः, दक्षिणायनम्, पितृलोकः, आकाशः, चन्द्रमाः - इति
सप्तस्थानघटितो मार्ग:गः धूमयानः ॥ अर्चि:चिः (ज्योतिः) अहः, शुक्लः, उत्तरायणम्, संवत्सरः,
संवत्सरात् देवलोकः, वायुलोकः, आदित्यः, चन्द्रमाः, विद्युत् (10१०) ततः अमानवपुरुषः
नेता, इन्द्रवरुणप्रजापतिब्रह्मलोकान् प्रतीति चतुर्दशस्थानघटितः अर्चिरादियानः ॥
विद्युल्लोकादुपरि प्रतीकोपासकानां नयनममानवेन नास्तीत्यादि शारीरकमीमांसायां चतुर्थ-
तृतीयपादे उपसंहारन्यायेन निर्णीतं द्रष्टव्यम् ॥