2023-06-05 16:39:59 by ambuda-bot
This page has not been fully proofread.
१२०
नीलकण्ठविजये सव्याख्याने
मिव, विमलभास्वरप्रभावभासितनभोविभागम्, अपास्तकळङ्कानुषङ्गतयेव
धूमादिमार्ग'चङ्क्रमपङ्किलचरणपशुजनानाक्रमणीयं, अशेषभुवनसर्गाव-
इति यावत् । ये दुग्धसागरस्य क्षीरसमुद्रस्य, ऊर्मयस्तरङ्गाः, तैर्निर्मितं
विरचितमिव स्थितम् । चिरं निपातेन निपतनेन, घनीभूतः पिण्डीभूतः,
शरच्चन्द्रचन्द्रिकया विकीर्ण: व्याप्तश्च, यो नीहार: हिमं, तस्य यः सारः, तेन
साघितं निर्मितमिव स्थितम् । धवळतमत्वादिति भावः । त्रैविक्रमः त्रिविक्रमस्य
भगवतः सम्बन्धी, यश्चरण, तस्य क्रमेण विन्यासेन, विंद्र विस्फुटितं, यद्विध्यण्डं
ब्रह्माण्डं, तस्य कपालात् कटाहसदृशावयवात्, निरर्गळं निर्निरोघं यथा तथा, निगळ -
न्ती निपतन्ती, या अलकनन्दा गङ्गा, तस्याः निपातेन निपतनेन, धौत क्षाळितमिव
स्थितम् । विमलस्य रूपान्तरासंवलितस्य, भास्वरस्य शुक्लभास्वरस्य शुक्लभास्व-
रवर्णस्य, प्रभाभिर्दीप्तिभिः, अवभासित प्रकाशितः, नभोविभागो यस्य सः
तथाभूतम् । अपास्तो निरस्तः, कळङ्कस्य अङ्कस्य, अनुषङ्गः सम्बन्धः, तस्य
भावस्तत्ता, तयेव । हेतूत्प्रेक्षालङ्कारः । धूमः आदिर्येषां ते धूमादयः, त एव
ते
मार्गस्सरणिः, तस्मिन् 'चकमणेन मुहुर्मुहुर्गमनेन, पङ्किलाः पङ्कवन्तः। 'पङ्क:
कर्दमपापयोः' इति विश्वः । तथाविधाश्चरणाः येषां ते तथा भूताः, ये पशुजना:
पशुकल्पा जनाः, तैरनाक्रमणीय प्राप्तुमशक्यम् । अत्रेदं बोध्यम् --
देवयानः
पितृयाण इति द्विविधः पन्थाः तस्य देवयानस्य अर्चिरादिमार्ग इत्येका संज्ञा,
पितृयाणस्य धूमादिमार्ग इत्येका संज्ञा, ये तु केवलं कर्मिणस्तेषां 'धूमादिमार्ग
a. 'चङ्क्रम' – मूलपाठ: पचादित्वादजन्तः, 'चकमणं' - व्याख्यापाठ: भावे
ल्युडन्तः ॥
1. 'धातोरेकाचो हलादे: क्रियासमभिहारे यड्' (पा. सू. 3-1-22) इति
सूत्रेण पौन:पुन्ये मृशार्थे वा यहि 'नुगतोऽनुनासिकान्तस्य' (पा. सू. 7-4-85) इत्यने-
नाभ्यासस्य नुकि रूपम् ॥
2. 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' (पा. सू. 5-2-200) इति
मत्वर्थीयः पङ्कशब्दात् इलच्प्रत्ययः, पिच्छिलवत् ॥
3. धूमो, रात्रिः, कृष्णपक्ष:, दक्षिणायनम्, पितृलोकः, आकाशः, चन्द्रमाः - इति
सप्तस्थानघटितो मार्ग: धूमयानः ॥ अर्चि: (ज्योतिः) अहः, शुक्लः, उत्तरायणम्, संवत्सरः,
संवत्सरात् देवलोकः, वायुलोकः, आदित्यः, चन्द्रमाः, विद्युत् (10) ततः अमानवपुरुषः
नेता, इन्द्रवरुणप्रजापतिब्रह्मलोकान् प्रतीति चतुर्दशस्थानघटितः अचिरादियानः ॥
विद्युल्लोकादुपरि प्रतीकोपासकानां नयनममानवेन नास्तीत्यादि शारीरकमीमांसायां चतुर्थ-
तृतीयपादे उपसंहारन्यायेन निर्णीतं द्रष्टव्यम् ॥