This page has been fully proofread twice.

ज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धसागरोर्मिनिर्मितमिव, चिरनिपातघनीभूतशाa-रदाशिरश्चन्द्रचन्द्रिकाविकीर्णनीहारसारसाधितमिव, त्रैविक्रमbचरणाक्रमाविद्धविध्यण्डकपालनिरर्गळनिर्गलदळकनन्दानिपातधौतमिव
 
[Ccommentary]
 
न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश' इति । तासु शतमित्युपलक्षणम्, अनेके ये ग्रन्थाः सूत्रभाष्यप्रकरणात्मकाः । 'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्' इति सूत्रलक्षणम् । 'सूत्रार्थो वर्ण्यते यत्र पदैस्सूत्रानुकारिभिः ।' इति भाष्यलक्षणम् । 'शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्' इति प्रकरणलक्षणम् । तेषु ग्रन्थय इव ग्रन्थयः दुर्भेदाः दुर्बोधा अर्थाः, तेषां
विभेदो विश्लथनं, विबोधनमिति यावत् । तस्मिन् जातं, कुतुकं कुतूहलं, यस्य तस्य सम्बुद्धिः इति, ब्रह्मर्षीणां हर्षस्तवैः, निरस्ताः निष्कासिताः, निखिलाः क्लेशा अविद्यादयो येषां ते तथाविधाः देवाः, निर्वव्रुः [^१]सुखं प्रापुः । अव्रणं बाधारहितमपि, पुनः स्वर्गं, गाहितुं गन्तुं, न वव्रुः न वृतवन्त इत्यर्थः ।
सप्तकक्ष्योपेतं हिरण्यगर्भभवनं वर्णयति ॥ अपि चाद्राक्षुरिति । निरस्तः निर्गतः, रजस्तमसोर्गुणयोः, व्यतिकरस्सम्पर्को, यस्य सः तस्य भावस्तत्ता तया । निर्मलस्य रजस्तमोलक्षणमलरहितस्य, सत्त्वस्य सत्त्वगुणस्य प्रकाशा दीप्तयः । 'काशृ'[^२] दीप्तौ' इत्यतोऽच् [^३]प्रत्ययः । तेषां राशिं पुञ्जमिव स्थितम् । 'स्यान्निकायः पुञ्जराशी' इत्यमरः । निष्कळङ्काः कळङ्करहिताः, शशाङ्काः बालचन्द्राः, त एव इष्टकाः चतुष्कोणशिलाविशेषाः, तासां सङ्घेन सङ्घटितं निबद्धमिव स्थितम् । निरिन्धनं यथा तथा, ज्वलन् यः अबिन्धनः उदकेन्धनः बडवानलः, तस्य ज्वालानां, परिवर्तेन परितोऽवस्थानेन, पिण्डिताः घनीभूताः, मण्डतां प्रापिता
 
a. 'शारदाशिरश्चन्द्र' -- इति मूलपाठः, 'शरच्चन्द्र' -- इति व्याख्यापाठः ॥
 
b. 'चरणाक्रमाविद्ध' -- इत्युभयत्राङ्विशिष्टः मूलपाठः, 'चरणक्रमविद्ध' इत्युभयत्र तद्रहितः व्याख्यापाठः ॥
 
[^१] निरुपसृष्टस्य वृञ्धातोः 'निर्वृतिः' इत्यादौ सुखार्थकता प्रसिद्धा ॥
 
[^२] 'काशृ=दीप्तौ' अयं धातुः देवादिकः 'काश्यते' -- इति । 'द्राहृजागृ निद्राक्षये' -- इत्यस्यानन्तरं पठितः भौवादिकः । 'आकारोपधप्रकरणादयमिह पठितः' इति मनोरमा ॥ 'कासृ=शब्दकुत्सायां' शब्दकुत्सा पर्दनम्, ऋकारोच्चारणमत्रात्मनेपदफलकम्, 'नाग्लोपि' (७.४.२) इत्ययं प्रवृत्त्यर्थञ्च । इत्ययं धातुः भौवादिकः अन्यः दन्त्यान्तः तालव्यान्तात् भिन्नः रूपतोऽर्थतश्च ॥
 
[^३] 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (पा. सू. ३.१.१३४) इत्यनेनेति भावः ॥