2023-07-26 06:27:18 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाभ्यासः
  
  
  
   
  
  
  
  ज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धसागरोर्मिनिर्मितमिव, चिरनिपा-
  
  
  
  तघनीभूतशाa-रदाशिरश्चन्द्रचन्द्रिका विकीर्णनीहारसारसाधितमिव, त्रैविक्रम-
  
  
  
  'bचरणाक्रमाविद्धविध्यण्डकपालनिरर्गळनिर्गलदळकनन्दानिपातधौतमिव
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश' इति । तासु शतमि -
  
  
  
  त्युपलक्षणम्, अनेके ये ग्रन्थाः सूत्रभाष्यप्रकरणात्मकाः । ' अल्पाक्षरमसन्दिग्धं
  
  
  
   सारवद्विश्वतोमुखम्' इति सूत्रलक्षणम् । 'सूत्रार्थो वर्ण्यते यत्र पदैस्सूलात्रानु-
  
  
  
  कारिभिः ।' इति भाष्यलक्षणम् । 'शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्'
  
  
  
   इति प्रकरणलक्षणम् । तेषु ग्रन्थय इव ग्रन्थय:यः दुर्भेदाः दुर्बोधा अर्थाः, तेषां
  
  
  
  
  
  
  
  विभेदो विश्लथनं, विबोधनमिति यावत् । तस्मिन् जातं, कुतुकं कुतूहलं, यस्य
  
  
  
   तस्य सम्बुद्धिः इति, ब्रह्मर्षीणां हर्षस्तवैः, निरस्ताः निष्कासिताः, निखिलाः
  
  
  
   क्लेशा अविद्यादयो येषां ते तथाविधा:धाः देवाः, निर्वव्रुः [^१]सुखखं प्रापुः । अव्रणं
  
  
  
   बाधारहितमपि, पुनः स्वर्गगं, गाहितुं गन्तुं, न वव्रुः न वृतवन्त इत्यर्थः ।
  
  
  
  
  
  
  
  सप्तकक्ष्योपेतं हिरण्यगर्भभवनं वर्णयति ॥ अपि चाद्राक्षुरिति । निरस्त:
  
  
  
  तः निर्गतः, रजस्तमसोर्गुणयोः, व्यतिकरस्सम्पर्को, यस्य सः तस्य भावस्तत्ता तया ।
  
  
  
   निर्मलस्य रजस्तमोलक्षणमलरहितस्य, सत्त्वस्य सत्त्वगुणस्य प्रकाशा दीप्तयः ।
  
  
  
   'काशृ'[^२] दीप्तौ' इत्यतोऽच् [^३]प्रत्ययः । तेषां राशिं पुञ्जमिव स्थितम् । 'स्यान्निकाय:
  
  
  
  यः पुञ्जराशी' इत्यमरः । निष्कळकाङ्काः कळङ्करहिताः, शशाङ्का:काः बालचन्द्राः,
  
  
  
   त एव इष्टकाः चतुष्कोणशिला विशेषाः, तासां सद्धेङ्घेन सङ्घटितं निबद्धमिव
  
  
  
   स्थितम् । निरिन्धनं यथा तथा, ज्वलन् यः अबिन्धन:नः उदकेन्धन:नः बडवानल:,
  
  
  
  लः, तस्य ज्वालानां, परिवर्तेन परितोऽवस्थानेन, पिण्डिताः घनीभूताः, मण्डतां प्रापिता
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a.
  
  
  
   
  
  
  
   'शारदाशिरश्चन्द्र' –-- इति मूलपाठः, 'शरच्चन्द्र' -- इति व्याख्यापाठः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  b. 'चरणाक्रमाविद्ध' –-- इत्युभयत्रा ङ्विशिष्टः मूलपाठः, 'चरणक्रमविद्ध' इत्युभयत्र
  
  
  
   तद्रहित:तः व्याख्यापाठः ॥
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] निरुपसृष्टस्य वृञ्धातोः 'निर्वृतिः' इत्यादौ सुखार्थकता प्रसिद्धा ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'काश शृ= दीप्तौ' अयं धातुः देवादिकः 'काश्यते' –-- इति । 'द्राहृ निद्राक्षये' -
  
  
  
  - इत्यस्यानन्तरं पठितः भौवादिकः । 'आकः कारोपधप्रकरणादयमिह पठितः' इति मनोरमा ॥
  
  
  
   'कासृ=शब्दकुत्सायां' शब्दकुत्सा पर्दनम्, ऋकारोच्चारणमत्रात्मनेपदफलकम्, 'नाग्लोपि'
  
  
  
   (7-4-2 ७.४.२) इत्यस्ययं प्रवृत्त्यर्थञ्च । इत्ययं धातुः भौवादिकः अन्यः दन्त्यान्तः तालव्या-
  
  
  
  न्तात् भिन्नः रूपतोऽर्थतश्च ॥
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यच : चः' (पा. सू. 3-1-134३.१.१३४) इत्यनेनेति भावः ॥
  
  
  
   
  
  
  
  -