This page has not been fully proofread.

द्वितीयाभ्यासः
 
ज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धसागरोर्मिनिर्मितमिव, चिरनिपा-
तघनीभूतशारदाशिरश्चन्द्रचन्द्रिका विकीर्णनीहारसारसाधितमिव, त्रैविक्रम-
'चरणाक्रमाविद्धविध्यण्डकपालनिरर्गळनिर्गलदळकनन्दानिपातधौतमिव
 
न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश' इति । तासु शतमि -
त्युपलक्षणम्, अनेके ये ग्रन्थाः सूत्रभाष्यप्रकरणात्मकाः । ' अल्पाक्षरमसन्दिग्धं
सारवद्विश्वतोमुखम्' इति सूत्रलक्षणम् । 'सूत्रार्थो वर्ण्यते यत्र पदैस्सूलानु-
कारिभिः ।' इति भाष्यलक्षणम् । 'शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्'
इति प्रकरणलक्षणम् । तेषु ग्रन्थय इव ग्रन्थय: दुर्भेदाः दुर्बोधा अर्थाः, तेषां
विभेदो विश्लथनं, विबोधनमिति यावत् । तस्मिन् जातं, कुतुकं कुतूहलं, यस्य
तस्य सम्बुद्धिः इति, ब्रह्मर्षीणां हर्षस्तवैः, निरस्ताः निष्कासिताः, निखिलाः
क्लेशा अविद्यादयो येषां ते तथाविधा: देवाः, निर्वव्रुः सुख प्रापुः । अव्रणं
बाधारहितमपि, पुनः स्वर्ग, गाहितुं गन्तुं, न वव्रुः न वृतवन्त इत्यर्थः ।
सप्तकक्ष्योपेतं हिरण्यगर्भभवनं वर्णयति ॥ अपि चाद्राक्षुरिति । निरस्त:
निर्गतः, रजस्तमसोर्गुणयोः, व्यतिकरस्सम्पर्को, यस्य सः तस्य भावस्तत्ता तया ।
निर्मलस्य रजस्तमोलक्षणमलरहितस्य, सत्त्वस्य सत्त्वगुणस्य प्रकाशा दीप्तयः ।
'काशृ' दीप्तौ' इत्यतोऽच् प्रत्ययः । तेषां राशिं पुञ्जमिव स्थितम् । 'स्यान्निकाय:
पुञ्जराशी' इत्यमरः । निष्कळका कळङ्करहिताः, शशाङ्का: बालचन्द्राः,
त एव इष्टकाः चतुष्कोणशिला विशेषाः, तासां सद्धेन सङ्घटितं निबद्धमिव
स्थितम् । निरिन्धनं यथा तथा, ज्वलन् यः अबिन्धन: उदकेन्धन: बडवानल:,
तस्य ज्वालानां, परिवर्तेन परितोऽवस्थानेन, पिण्डिताः घनीभूताः, मण्डतां प्रापिता
 
:
 
a.
 
'शारदाशिरश्चन्द्र' – इति मूलपाठः, 'शरच्चन्द्र' - इति व्याख्यापाठः ॥
 
-
 
-
 
b. 'चरणाक्रमाविद्ध' – इत्युभयत्रा विशिष्टः मूलपाठः, 'चरणक्रमविद्ध' इत्युभयत्र
तद्रहित: व्याख्यापाठः ॥
 
1. निरुपसृष्टस्य वृञ्धातोः 'निर्वृतिः' इत्यादौ सुखार्थकता प्रसिद्धा ॥
 
2. 'काश = दीप्तौ' अयं धातुः देवादिकः 'कायते' – इति । 'द्राहृ निद्राक्षये'-
इत्यस्यानन्तरं पठितः भौवादिकः । 'आकः रोपधप्रकरणादयमिह पठितः' इति मनोरमा ॥
'कासृ=शब्दकुत्सायां' शब्दकुत्सा पर्दनम्, ऋकारोच्चारणमत्रात्मनेपदफलकम्, 'नाग्लोपि'
(7-4-2 ) इत्यस्य प्रवृत्त्यर्थञ्च । इत्ययं धातुः भौवादिकः अन्यः दन्त्यान्तः तालव्या-
न्तात् भिन्नः रूपतोऽर्थतश्च ॥
 
3. 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यच : ' (पा. सू. 3-1-134) इत्यनेनेति भावः ॥
 
-