2023-09-04 10:17:40 by Bharadwajraki
This page has been fully proofread twice.
वाग्देवीवदनारविन्दगळितब्रह्मोaद्यविद्याशत-
ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः ।
कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा
निर्वव्रुर्न च वव्रुरव्रणमपि स्वर्गं पुनर्गाहितुम् ॥ ८ ॥
अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मलसत्त्वप्रकाशराशिमिव, निष्कळङ्कशशाङ्केष्टकासङ्घसङ्घटितमिव, bनिरन्तर-
[commentary]
ब्रह्मेड्याः ब्रह्मप्रतिपादकाः, या विद्याः वेदतदङ्गन्यायमीमांसाधर्मशास्त्रलक्षणाः, तासां शतेषु ये ग्रन्थाः तेषु ग्रन्थेषु, ये ग्रन्थयः [^१]अप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तयः, तेषां विभेदेन विश्लथनेन । 'भिद्यते हृदयग्रन्थिः' इत्यादौ ग्रन्थिशब्दस्य अन्यथाप्रतिपत्तिपरत्वं तच्छ्रुतिव्याख्यातृभिरुक्तम् । जातमुत्पन्नं, कुतुकं कौतूहलं, येषां तथाविधानां ब्रह्मर्षीणां संबन्धिभिः, हर्षोत्पन्नैः स्तवैः स्तुतिभिः । तदा, निरस्ताः[^२] निर्गताः, निखिलाः क्लेशाः अविद्यास्मितारागद्वेषाभिनिवेशलक्षणपञ्चक्लेशाः, येषां ते तथाविधाः, दिगीशाः देवाः, निर्वव्रुः सुखिता बभूवुः । अपगतः व्रणः दैत्यबाधालक्षणः, यस्य सः तथाविधमपि, पुनः स्वर्गं, गाहितुं सावगाढुं च, न वव्रुः नाङ्गीचक्रुरित्यर्थः । को नाम महत्पदं प्राप्य तदल्पं पदमिच्छतीति भावः । यद्वा[^३] कर्णाभ्यर्णं श्रोत्रान्तिकं, गतैः प्राप्तैः, हे वाग्देवीवदन वाग्देवी सरस्वती वदनेषु यस्य सः तथाभूत, हे अरविन्दगळित, वासुदेवनाभिकमलोत्पन्न, हे ब्रह्मड्य वेदपारायणपरायण । 'वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । विद्याश्चतुर्दश । तदुक्तम् -- 'अङ्गानि वेदाश्चत्वारो मीमांसा
a. 'ब्रह्मोद्य' -- इति मूलपाठः, 'ब्रह्मेड्य' -- इति व्याख्यापाठः ।
b. 'निरन्तर' -- मूलपाठः, 'निरिन्धन' -- व्याख्यातृपाठः ।
[^१] पूर्वं वादेषु चातुर्यं अनुत्तरप्रश्नकरणं = यथोत्तरं वक्तुं न शक्यते प्रतिवादिना तथाविधप्रश्नकरणम्, अनाशङ्कोत्थानोत्तरप्रदानं = यथा उत्तरे दत्ते कस्याश्चिदप्याशङ्कायाः उपरि उत्थापनस्य नैवावकाशस्तादृशोत्तरस्य प्रकृष्टस्य दानम्, इति वादिप्रतिवादिवादचातुर्यं वर्णितम् । अधुना ग्रन्थग्रन्थयः -- अप्रतिपत्तिरूपा, विप्रतिपत्तिरूपा अन्यथाप्रतिपत्तिरूपा इति तिस्रः वर्ण्यन्ते । 'मिथ्यात्वाज्ञानसंशयैः' -- इत्याह कुमारिलभट्टः ॥
[^२] 'निरस्ताः' -- इति व्याख्यापाठः ॥ 'निवृत्त' -- इति मूलपाठः ।
[^३] यद्वेति पक्षान्तरे चत्वारि पृथक् पदानि ब्रह्मणः संबोधनरूपाणि ॥