2023-07-26 06:05:02 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठ विजये सव्याख्याने
  
  
  
   
  
  
  
  वाग्देवीवदनार विन्दगळितब्रह्मोaद्यविद्याशत-
  
  
  
  
  
  
  
  ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः ।
  
  
  
  
  
  
  
  कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा
  
  
  
  निर्वब्
  
  
  
  निर्वव्रुर्न च वव्रुरव्रणमपि स्वर्गगं पुनर्गाहितुम् ॥ ८ ॥
  
  
  
  
  
  
  
   
  
  
  
  अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मल-
  
  
  
  सत्त्वप्रकाशराशिमित्रव, निष्कळङ्कशशाङ्केष्टकासङ्घ सङ्घटितमिव, निरन्तर bनिरन्तर-
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  2
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [ommentary]
  
  
  
   
  
  
  
  ब्रझेह्मेड्यायाः ब्रह्मप्रतिपादकाः, या विद्याः वेदतदङ्गन्यायमीमांसाधर्मशास्त्रलक्षणाः,
  
  
  
   तासां शतेषु ये ग्रन्थाः तेषु ग्रन्थेषु, ये ग्रन्थय: 1 यः [^१]अप्रतिपत्तिविप्रतिपत्त्यन्यथा -
  
  
  
  प्रतिपत्तयः, तेषां विभेदेन विश्लथनेन । 'भिद्यते हृदयग्रन्थिः' इत्यादौ ग्रन्थिशब्दस्य
  
  
  
   अन्यथाप्रतिपत्तिपरत्वं तच्छ्ररुतिव्याख्यातृभिरुक्तम् । जातमुत्पन्नं, कुतुकं
  
  
  
   कौतूहलं, येषां तथाविधानां ब्रह्मर्षीणां संबन्धिभिः, हर्षोत्पन्नैः स्तवैः स्तुतिभिः ।
  
  
  
   तदा, निरस्ता:ताः[^२] निर्गताः, निखिला:लाः क्लेशा:शाः अविद्यास्मितारागद्वेषाभिनिवेशल-
  
  
  
  क्षणपञ्चक्लेशाः येषां ते तथाविधाः, दिगीशा:शाः देवाः, निर्वब्व्रुः सुखिता
  
  
  
   बभूवुः । अपगतः व्रण:णः दैत्यचाबाधा लक्षणः, यस्य सः तथाविधमपि, पुनः
  
  
  
   स्वर्गं, गाहितुं सावगाढुं च, न वव्रुः नाङ्गीचकुक्रुरित्यर्थः । को नाम महत्पदं
  
  
  
   प्राप्य तदल्पं पदमिच्छतीति भावः । यद्वा[^३] कर्णाभ्यर्णणं श्रोत्रान्तिकं, गतैः प्राप्तैः, हे हे
  
  
  
  वाग्देवीवदन वाग्देवी सरस्वती वदनेषु यस्य
  
  
  
  स: सः तथाभूत, हे अरविन्द
  
  
  
  गळित, वासुदेवनाभिकमलोत्पन्न, हे ब्रह्मड्य वेदपारायणपरायण । 'वेदस्तत्त्वं
  
  
  
   तपो ब्रह्म' इत्यमरः । विद्याश्चतुर्दश । तदुक्तम् –-- 'अङ्गानि वेदाश्चत्वारो मीमांसा
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  •
  
  
  
   
  
  
  
  a. 'ब्रह्मोद्य' इति मूलपाठः, 'ब्रह्ममेड्य' इति व्याख्यापाठः ।
  
  
  
  'निरन्तर' –
  
  
  
   
  
  
  
  b. 'निरन्तर' -- मूलपाठः, 'निरिन्धन' -- व्याख्यातृपाठः ।
  
  
  
   
  
  
  
  a. 'ब्रह्मोद्य'
  
  
  
   
  
  
  
  b.
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] पूर्ववं वादेषु चातुर्ययं अनुत्तरप्रश्नकरणं = यथोत्तरं वक्तुं न शक्यते प्रतिवादिना
  
  
  
   तथाविधप्रश्नकरणम्, अनाशङ्कोत्थानोत्तरप्रदानं = यथा उत्तरे दत्ते कस्याश्चिदप्याशङ्कायाः
  
  
  
   उपरि उत्थापनस्य नैवावकाशस्त / तादृशोत्तरस्य प्रकृष्टस्य दानम्, इति वादिप्रतिवादिवा दचातुर्य
  
  
  
  यं वर्णितम् । अधुना ग्रन्थग्रन्थयः –-- अप्रतिपत्तिरूपा, विप्रतिपत्तिरूपा अन्यथाप्रतिपत्तिरूपा
  
  
  
   इति तिस्रः वर्ण्यन्ते । ' मिथ्यात्वाज्ञान संशयै : यैः' इत्याह कुमारिलभट्टः ॥
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'निरस्ताः' –-- इति व्याख्यापाठः ॥ 'निवृत्त' -- इति मूलपाठः ।
  
  
  
   
  
  
  
  —
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] यद्वेति पक्षान्तरे चत्वारि पृथक् पदानि ब्रह्मणः संबोधनरूपाणि ॥
  
  
  
   
  
  
  
  >