This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
वाग्देवीवदनार विन्दगळितब्रह्मोद्यविद्याशत-
ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः ।
कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा
निर्वब्रुर्न च वरणमपि स्वर्ग पुनर्गाहितुम् ॥ ८ ॥
अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मल-
सत्त्वप्रकाशराशिमित्र, निष्कळङ्कशशाङ्केष्टकासङ्घ सङ्घटितमिव, निरन्तर -
 
:
 
2
 
ब्रझेड्या ब्रह्मप्रतिपादकाः, या विद्याः वेदतदङ्गन्यायमीमांसाधर्मशास्त्रलक्षणाः,
तासां शतेषु ये ग्रन्थाः तेषु ग्रन्थेषु, ये ग्रन्थय: 1 अप्रतिपत्तिविप्रतिपत्त्यन्यथा -
प्रतिपत्तयः, तेषां विभेदेन विश्लथनेन । 'भिद्यते हृदयग्रन्थिः' इत्यादौ ग्रन्थिशब्दस्य
अन्यथाप्रतिपत्तिपरत्वं तच्छ्रतिव्याख्यातृभिरुक्तम् । जातमुत्पन्नं, कुतुकं
कौतूहलं, येषां तथाविधानां ब्रह्मर्षीणां संबन्धिभिः, हर्षोत्पन्नैः स्तवैः स्तुतिभिः ।
तदा, निरस्ता: निर्गताः, निखिला: क्लेशा: अविद्यास्मितारागद्वेषाभिनिवेशल-
क्षणपञ्चक्लेशाः येषां ते तथाविधाः, दिगीशा: देवाः, निर्वब्रुः सुखिता
बभूवुः । अपगतः व्रण: दैत्यचाधा लक्षणः, यस्य सः तथाविधमपि, पुनः
स्वर्गं, गाहितुं सावगाढुं च, न वव्रुः नाङ्गीचकुरित्यर्थः । को नाम महत्पदं
प्राप्य तदल्पं पदमिच्छतीति भावः । यद्वा कर्णाभ्यर्ण श्रोत्रान्तिकं, गतैः प्राप्तैः, हे हे
वाग्देवीवदन वाग्देवी सरस्वती वदनेषु यस्य
स: तथाभूत, हे अरविन्द
गळित, वासुदेवनाभिकमलोत्पन्न, हे ब्रह्मड्य वेदपारायणपरायण । 'वेदस्तत्त्वं
तपो ब्रह्म' इत्यमरः । विद्याश्चतुर्दश । तदुक्तम् – 'अङ्गानि वेदाश्चत्वारो मीमांसा
 
-
 
• इति मूलपाठः, 'ब्रह्मड्य' इति व्याख्यापाठः ।
'निरन्तर' –मूलपाठः, 'निरिन्धन' - व्याख्यातृपाठः ।
 
a. 'ब्रह्मोद्य'
 
b.
 
1. पूर्व वादेषु चातुर्य अनुत्तरप्रश्नकरणं = यथोत्तरं वक्तुं न शक्यते प्रतिवादिना
तथाविधप्रश्नकरणम् अनाशकोत्थानोत्तरप्रदानं = यथा उत्तरे दत्ते कस्याश्चिदप्याशङ्कायाः
उपरि उत्थापनस्य नैवावकाशस्त / दृशोत्तरस्य प्रकृष्टस्य दानम्, इति वादिप्रतिवादिवा दचातुर्य
वर्णितम् । अधुना ग्रन्थग्रन्थयः – अप्रतिपत्तिरूपा, विप्रतिपत्तिरूपा अन्यथाप्रतिपत्तिरूपा
इति तिस्रः वर्ण्यन्ते । ' मिथ्यात्वाज्ञान संशयै : ' इत्याह कुमारिलभट्टः ॥
 
2. 'निरस्ताः' – इति व्याख्यापाठः ॥ 'निवृत्त' - इति मूलपाठः ।
 

 
-
 
3. यद्वेति पक्षान्तरे चत्वारि पृथक् पदानि ब्रह्मणः संबोधनरूपाणि ॥
 
>