2023-09-04 10:11:30 by Bharadwajraki
This page has been fully proofread twice.
गाढम्, आदिश्य चतुर्मुखोपसर्पणेतिकर्तव्यताम्, अनुगृह्य शिवेन चेतसा, विसृष्टस्तेन, विनयातिशयादादृष्टिपथादादधानश्शिरस्यञ्जलिम्, आस्थाय महान्तं योगम्, आवर्तयन् [^१]प्रणवमेव, सहामरैराससाद महताऽवधानेन हैरण्यगर्भमायतनम् । गच्छन्तः पथि
[commentary]
प्रति अनुज्ञाप्य अनुज्ञां दापयित्वा, पश्चात् तेन सनत्कुमारेण अनुव्रजनं कृत्वा, गाढं दृढं, परिष्वज्य आश्लिष्य, चतुर्मुखस्य ब्रह्मणः, उपसर्पणे समीपगमने, इतिकर्तव्यतां च इत्थंकर्तव्यत्वं, ब्रह्मान्तिकं गत्वा तत्रैवं वक्तव्यमित्थं कर्तव्यमिति निखिलं कर्तव्यताप्रकारमपीति तात्पर्यार्थः । आदिश्य उक्त्वा, शिवेन शुभानुध्यानिना, चेतसा मनसा च अनुगृह्य अनुग्रहं कृत्वा, विसृष्टः त्यक्ताः, विनयातिशयात् । ल्यब्लोपे [^२]पञ्चमी । विनयोत्कर्षमाश्रित्येत्यर्थः । दृष्ट्याः पन्थाः मार्गः, दृष्टिपथशब्दो लक्षणया दृग्गोचरीभवनबोधकः । तथा च आदृष्टिपथादित्यस्य दृग्गोचरीभवनमार[^३]भ्येत्यर्थः । शिरसि, अञ्जलिं युतप्रसृतिहस्तौ पाणी । 'पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । आदधानः
निक्षिपन्नित्यर्थः । महान्तमधिकं, योगं सङ्गतिं, आस्थाय आबध्य । यद्वा योगं ध्यानं उपायं युक्तिं वा । 'योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । प्रणवमोङ्कारमिव । 'ओङ्कारप्रणवौ समौ' इत्यमरः । तत्तदागमोदितानि तत्तद्वेदप्रतिपादितानि । 'हिरण्यगर्भस्समवर्तताग्रे’[^४] इत्यादीनि ब्रह्मसूक्तानि
ब्रह्मप्रतिपादकमन्त्रानित्यर्थः । आवर्तयन् असकृज्जपन्नेव, अमरैस्सह, महता अधिकेन, अवधानेन ऐकाग्र्येण, हिरण्यगर्भस्य ब्रह्मणः इदं हैरण्यगर्भम्, आयतनं यज्ञस्थानं । 'चैत्यमायतनं तुल्यम्' इत्यमरः । आससाद जगाम । महायत्नमन्तरा कथं महदनुग्रहस्सिध्यतीति भावः । पथि गच्छतां सुराणां वृत्तान्तमाह ॥ गच्छन्तः पथीति ॥ वागिति ॥ कर्णाभ्यर्णं कर्णसमीपं, गतैः प्राप्तैः, वाग्देव्याः सरस्वत्याः, वदनारविन्दात् मुखकमलात्, गळिताः च्युताः,
[^१] प्रणवमिव तत्तदागमोदितब्रह्मसूक्तानि इति व्याख्यातृसम्मतः पाठः ।
[^२] 'आश्रित्य' इति लुप्तल्यपः विनयातिशयः कर्म ॥
[^३] 'आरभ्य' -- इति लुप्तल्यपः दृष्टिपथः कर्म ॥
[^४] 'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम' -- इति पूर्णा ऋक् महान्यासे प्रसिद्धा ॥