2023-07-26 05:45:38 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाभ्यासः
  
  
  
   
  
  
  
  ११७
  
  
  
   
  
  
  
  गाढम्, आदिश्य चतुर्मुखोपसर्पणेतिकर्तव्यताम्, अनुगृह्य शिवेन चेत-
  
  
  
  सा, विसृष्टस्तेन, विनयातिशयादादृष्टिपथादादधानश्शिरस्यञ्जलिम्,
  
  
  
   आस्थाय महान्तं योगम् आवर्तयन् [^१]प्रणवमेव, सहा मरैराससाद
  
  
  
   महताऽवधानेन हैरण्यगर्भमायतनम् । गच्छन्तः पथि
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  प्रति अनुज्ञाप्य अनुज्ञां दापयित्वा, पश्चात् तेन सनत्कुमारेण अनुव्रजनं कृत्वा,
  
  
  
   गाढं दृढं, परिष्वज्य आश्लिष्य, चतुर्मुखस्य ब्रह्मणः, उपसर्पणे समीपगमने, इति-
  
  
  
  कर्तव्यतां च इत्थंकर्तव्यत्वं, ब्रह्मान्तिकं गत्वा तत्रैवं वक्तव्यमित्थं कर्तव्यमिति
  
  
  
   निखिलं कर्तव्यताप्रकारमपीति तात्पर्यार्थः । आदिश्य उत्तक्त्वा, शिवेन शुभानु-
  
  
  
  ध्यानिना, चेतसा मनसा च अनुगृह्य अनुग्रहं कृत्वा, विसृष्टः त्यक्ताः,
  
  
  
   विनयातिशयात् । ल्यब्लोपे [^२]पञ्चमी । विनयोत्कर्षमाश्रित्येत्यर्थः । दृष्टट्याः पन्थाः
  
  
  
   मार्गः, दृष्टिपथशब्दो लक्षणया दृग्गोचरीभवनबोधकः । तथा च आदृष्टिपथा-
  
  
  
  दित्यस्य दृग्गोचरीभवनमार' [^३]भ्येत्यर्थः । शिरसि, अञ्जलिं युतप्रसृतिहस्तौ पाणी ।
  
  
  
   'पाणिर्निकुब्ज:जः प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । आदधानः
  
  
  
  
  
  
  
  निक्षिपन्नित्यर्थः । महान्तमधिकं, योगं सङ्गतितिं, आस्थाय आबध्य । यद्वा योगं
  
  
  
   ध्याननं उपाययं युक्तितिं वा । 'योगस्सन्नहनोपायध्यान सङ्गतियुक्तिषु' इत्यमरः ।
  
  
  
   प्रणवमोङ्कार मिव । 'ओङ्कारप्रणवौ समौ' इत्यमरः । तत्तदागमोदितानि
  
  
  
   तत्तद्वेदप्रतिपादितानि । 'हिरण्यगर्भस्समवर्तताग्रे’[^४] इत्यादीनि ब्रह्मसूक्तानि
  
  
  
  
  
  
  
  ब्रह्मप्रतिपादकमन्त्रानित्यर्थः । आवर्तयन् असकृज्जपन्नेव, अमरैस्सह, महता
  
  
  
   अधिकेन, अवधानेन ऐकाय्ग्र्येण, हिरण्यगर्भस्य ब्रह्मणः इदं हैरण्यगर्भम्, आयतनं
  
  
  
   यज्ञस्थानं । 'चैत्यमायतनं तुल्यम्' इत्यमरः । आससाद जगाम । महायत्नमन्तरा
  
  
  
   कथं महदनुग्रहस्सिध्यतीति भावः । पथि गच्छतां सुराणां वृत्तान्तमाह
  
  
  
   ॥ गच्छन्तः पथीति ॥ वागिति ॥ कर्णाभ्यर्णं कर्ण कर्णसमीपपं, गतैः प्राप्तैः,
  
  
  
   वाग्देव्याः सरस्वत्याः, वदनार विन्दात् मुखकमलात्, गळिता:ताः च्युताः,
  
  
  
   
  
  
  
  4
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] प्रणवमिव तत्तदागमोदितब्रह्मसूक्तानि इति व्याख्यातृसम्मतः पाठः ।
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] 'आश्रित्य ' इति लुप्तल्यपः विनयातिशयः कर्म ॥
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'आरभ्य' –-- इति लुप्तल्यपः दृष्टिपथः कर्म ॥
  
  
  
   
  
  
  
  4.
  
  
  
   
  
  
  
  [^४] 'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं
  
  
  
  पा द्यामुतेमां कस्मै देवाय हविषा विधेम' -- इति पूर्णा ऋक् महान्यासे प्रसिद्धा ॥
  
  
  
   
  
  
  
  —