2023-06-05 16:39:58 by ambuda-bot
This page has not been fully proofread.
द्वितीयाभ्यासः
११७
गाढम्, आदिश्य चतुर्मुखोपसर्पणेतिकर्तव्यताम्, अनुगृह्य शिवेन चेत-
सा, विसृष्टस्तेन, विनयातिशयादादृष्टिपथादादधानश्शिरस्यञ्जलिम्,
आस्थाय महान्तं योगम् आवर्तयन् प्रणवमेव, सहा मरैराससाद
महताऽवधानेन हैरण्यगर्भमायतनम् । गच्छन्तः पथि
"
प्रति अनुज्ञाप्य अनुज्ञां दापयित्वा, पश्चात् तेन सनत्कुमारेण अनुव्रजनं कृत्वा,
गाढं दृढं, परिष्वज्य आश्लिष्य, चतुर्मुखस्य ब्रह्मणः, उपसर्पणे समीपगमने, इति-
कर्तव्यतां च इत्थंकर्तव्यत्वं ब्रह्मान्तिकं गत्वा तत्रैवं वक्तव्यमित्थं कर्तव्यमिति
निखिलं कर्तव्यताप्रकारमपीति तात्पर्यार्थः । आदिश्य उत्तवा, शिवेन शुभानु-
ध्यानिना, चेतसा मनसा च अनुगृह्य अनुग्रहं कृत्वा, विसृष्टः त्यक्ताः,
विनयातिशयात् । ल्यब्लोपे पञ्चमी । विनयोत्कर्षमाश्रित्येत्यर्थः। दृष्टयाः पन्थाः
मार्गः, दृष्टिपथशब्दो लक्षणया दृग्गोचरीभवनबोधकः । तथा च आदृष्टिपथा-
दित्यस्य दृग्गोचरीभवनमार' भ्येत्यर्थः । शिरसि, अञ्जलिं युतप्रसृतिहस्तौ पाणी ।
'पाणिर्निकुब्ज: प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । आदधानः
निक्षिपन्नित्यर्थः । महान्तमधिकं, योगं सङ्गति, आस्थाय आबध्य । यद्वा योगं
ध्यान उपाय युक्ति वा । 'योगस्सन्नहनोपायध्यान सङ्गतियुक्तिषु' इत्यमरः ।
प्रणवमोकार मिव । 'ओङ्कारप्रणवौ समौ' इत्यमरः । तत्तदागमोदितानि
तत्तद्वेदप्रतिपादितानि । 'हिरण्यगर्भस्समवर्तताग्रे इत्यादीनि ब्रह्मसूक्तानि
ब्रह्मप्रतिपादकमन्त्रानित्यर्थः । आवर्तयन् असकृजपन्नेव, अमरैस्सह, महता
अधिकेन, अवधानेन ऐकाय्र्येण, हिरण्यगर्भस्य ब्रह्मणः इदं हैरण्यगर्भम्, आयतनं
यज्ञस्थानं । 'चैत्यमायतनं तुल्यम्' इत्यमरः । आससाद जगाम । महायत्नमन्तरा
कथं महदनुग्रहस्सिध्यतीति भावः । पथि गच्छतां सुराणां वृत्तान्तमाह
॥ गच्छन्तः पथीति ॥ वागिति ॥ कर्णाभ्यर्ण कर्णसमीप, गतैः प्राप्तैः,
वाग्देव्याः सरस्वत्याः, वदनार विन्दात् मुखकमलात्, गळिता: च्युताः,
4
1. प्रणवमिव तत्तदागमोदितब्रह्मसूतानि इति व्याख्यातृसम्मतः पाठः ।
2. 'आश्रित्य ' इति लुप्तल्यपः विनयातिशयः कर्म ॥
3. 'आरभ्य' – इति लुप्तल्यपः दृष्टिपथः कर्म ॥
4. 'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं
पामुतेमां कस्मै देवाय हविषा विधेम' इति पूर्णा ऋक् महान्यासे प्रसिद्धा ॥
—