2023-09-04 10:06:16 by Bharadwajraki
This page has been fully proofread twice.
सनत्कुमारेण समागमे गुरोः
निशाम्य वृत्ता विविधास्तदर्हणाः ।
निशम्य वादेष्वथ चास्य चातुरीं
विशिष्य तस्मिन्नमरा विनेमिरे ॥ ७ ॥
आङ्गिरसोऽपि प्रणम्य भक्त्या महत्या परमेष्ठिनमिव सनत्कुमारम्, aआवेद्य देवकार्यम्, अनुज्ञाप्य च तेन पाकशासनम्, अनुव्रज्य परिष्वज्य
[commentary]
अनेकविधाः, ताश्च ताः अर्हणाश्चेति कर्मधारयः । तथाविधान् मधुपर्काद्युपचारानित्यर्थः । ताः निशाम्य दृष्ट्वा । निपूर्वस्य 'शम' धातोः चाक्षुषज्ञानार्थकत्वमाह [^१]माधवः । अथ पूजानन्तरं, सनत्कुमारेण ब्रह्मपुत्रेण सह, वादेषु आलापेषु, अस्य चातुरीं चातुर्यम्, अनुत्तरप्रश्नकरणानाशङ्कोत्थानोत्तरप्रदानलक्षणं निशम्य श्रुत्वा, विशिष्यविशेषाकारेण, अतिशयेनेति यावत् । तस्मिन् गुरौ, अमराः देवाः, विनेमिरे नम्रा बभूवुः । सनत्कुमारसम्भावितः बृहस्पतिः स्वयं बुद्धिमानपि तन्मुखागतब्रह्मसविधवक्तव्यः तमापृच्छ्य यथान्यायं तेन विसृष्टः देवैस्सह ब्रह्मावसथं ययावित्याह ॥ आङ्गिरस इति ॥ आङ्गिरसः बृहस्पतिरपि, [^२]परमेष्ठिनं पितामहमिव स्थितं सनत्कुमारं, महत्या भक्त्या अनुरागेण, प्रणम्य, देवकार्यं इन्द्रादिप्रयोजनं, निवेद्य विज्ञाप्य, तेन [^३]सनत्कुमारेण पाकशासनमिन्द्रं-
a. 'आवेद्य' -- इति मूलपाठः । 'निवेद्य' - इति व्याख्यापाठः ।
[^१] निशाम्य=दृष्ट्वा, निशम्य=श्रुत्वा इत्यर्थभेदः दीर्घह्रस्वभेदात् कविसंप्रदायसिद्धः । 'शमो दर्शने' 'यमोऽपरिवेषणे' 'स्कदिरवपरिभ्यां च' -- इति घटाद्यन्तर्गणसूत्रत्रयं 'न कम्यमिचमाम्' -- इति पूर्वसूत्रात् नेत्यनुवर्त्य 'शाम्यतिदर्शने मिन्न स्यात्' -- इत्येवमादि व्याचख्यौ माधवः । स्वामी तु नञमननुवर्त्य 'शमोऽदर्शने' -- इत्यकारप्रश्लेषेण व्याख्याति स्म । सूत्रद्वये उदाहरणप्रत्युदाहरणयोः व्यत्यासरूपफलभेदे प्रथमसूत्रे माधवस्वामिनोनर्थिनार्थभेदः फलभेदश्च ॥ माधवमतं च वृत्तिकृन्यासकृत्सम्मतमिति भावः ॥
[^२] परमे स्थाने सत्यलोकाख्ये तिष्ठति परमेष्ठी तम् ॥ सनत्कुमारोऽपि परमे आनन्दमयकोशादप्युपरि सच्चिदानन्दघने निर्गुणपरमात्मनि तिष्ठतीति श्लिष्टमिदं पदम् ॥
[^३] 'तेन अनुज्ञाप्य' -- 'सः इन्द्रमनुजानाति, तेन गुरुः इन्द्रमनुज्ञापयति'-- इति अणौ कर्तुः णौ न कर्मत्वं, अपि तु प्रयोज्यकर्तृत्वमेवेति तृतीया ॥ 'गतिबुद्धिप्रत्यवसानार्थ --’ (पा. सू. १.४.५२) इत्यत्रानन्तर्भावात् अनुजानातेः 'चैत्रः मैत्रेण तण्डुलं पाचयति' इतिवत् ॥
निशाम्य वृत्ता विविधास्तदर्हणाः ।
निशम्य वादेष्वथ चास्य चातुरीं
विशिष्य तस्मिन्नमरा विनेमिरे ॥ ७ ॥
आङ्गिरसोऽपि प्रणम्य भक्त्या महत्या परमेष्ठिनमिव सनत्कुमारम्, aआवेद्य देवकार्यम्, अनुज्ञाप्य च तेन पाकशासनम्, अनुव्रज्य परिष्वज्य
[commentary]
अनेकविधाः, ताश्च ताः अर्हणाश्चेति कर्मधारयः । तथाविधान् मधुपर्काद्युपचारानित्यर्थः । ताः निशाम्य दृष्ट्वा । निपूर्वस्य 'शम' धातोः चाक्षुषज्ञानार्थकत्वमाह [^१]माधवः । अथ पूजानन्तरं, सनत्कुमारेण ब्रह्मपुत्रेण सह, वादेषु आलापेषु, अस्य चातुरीं चातुर्यम्, अनुत्तरप्रश्नकरणानाशङ्कोत्थानोत्तरप्रदानलक्षणं निशम्य श्रुत्वा, विशिष्यविशेषाकारेण, अतिशयेनेति यावत् । तस्मिन् गुरौ, अमराः देवाः, विनेमिरे नम्रा बभूवुः । सनत्कुमारसम्भावितः बृहस्पतिः स्वयं बुद्धिमानपि तन्मुखागतब्रह्मसविधवक्तव्यः तमापृच्छ्य यथान्यायं तेन विसृष्टः देवैस्सह ब्रह्मावसथं ययावित्याह ॥ आङ्गिरस इति ॥ आङ्गिरसः बृहस्पतिरपि, [^२]परमेष्ठिनं पितामहमिव स्थितं सनत्कुमारं, महत्या भक्त्या अनुरागेण, प्रणम्य, देवकार्यं इन्द्रादिप्रयोजनं, निवेद्य विज्ञाप्य, तेन [^३]सनत्कुमारेण पाकशासनमिन्द्रं-
a. 'आवेद्य' -- इति मूलपाठः । 'निवेद्य' - इति व्याख्यापाठः ।
[^१] निशाम्य=दृष्ट्वा, निशम्य=श्रुत्वा इत्यर्थभेदः दीर्घह्रस्वभेदात् कविसंप्रदायसिद्धः । 'शमो दर्शने' 'यमोऽपरिवेषणे' 'स्कदिरवपरिभ्यां च' -- इति घटाद्यन्तर्गणसूत्रत्रयं 'न कम्यमिचमाम्' -- इति पूर्वसूत्रात् नेत्यनुवर्त्य 'शाम्यतिदर्शने मिन्न स्यात्' -- इत्येवमादि व्याचख्यौ माधवः । स्वामी तु नञमननुवर्त्य 'शमोऽदर्शने' -- इत्यकारप्रश्लेषेण व्याख्याति स्म । सूत्रद्वये उदाहरणप्रत्युदाहरणयोः व्यत्यासरूपफलभेदे प्रथमसूत्रे माधवस्वामिनो