2023-06-05 16:39:58 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सध्याख्याने
सनत्कुमारेण समागमे गुरोः
निशाम्य वृत्ता विविधास्तदर्हणाः।
निशम्य वादेष्वथ चास्य चातुरीं
विशिष्य तस्मिन्नमरा विनेमिरे ॥ ७ ॥
आङ्गिरसोऽपि प्रणम्य भक्त्या महत्या परमेष्ठिनमिव सनत्कुमारम्,
'आवेद्य देवकार्यम्, अनुज्ञाप्य च तेन पाकशासनम्, अनुव्रज्य परिष्वज्य
अनेकविषाः, ताश्च ताः अर्हणाश्चेति कर्मधारयः । तथाविधान् मधुपर्काद्युपचा-
रानित्यर्थ: । ताः निशाम्य दृष्ट्वा । निपूर्वस्य 'शम' धातोः चाक्षुषज्ञानार्थकत्वमाह
'माधवः । अथ पूजानन्तरं, सनत्कुमारेण ब्रह्मपुत्रेण सह, वादेषु आलापेषु,
अस्य चातुरीं चातुर्यम्, अनुत्तरप्रश्नकरणानाशङ्कोत्थानोत्तरप्रदानलक्षणं निशम्य
श्रुत्वा, विशिष्य विशेषाकारेण, अतिशयेनेति यावत् । तस्मिन् गुरौ, अमराः
देवाः, विनेमिरे नम्रा बभूवुः । सनत्कुमारसम्भावितः बृहस्पतिः स्वयं बुद्धिमानपि
तन्मुखागतब्रह्मसविधवक्तव्यः तमापृच्छ्च यथान्यायं तेन विसृष्ट: देवैस्सह
ब्रह्मावसथं ययावित्याह ॥ आङ्गिरस इति ॥ आङ्गिरस: बृहस्पतिरपि,
2परमेष्ठिन पितामहमिव स्थितं सनत्कुमारं महत्या भक्त्या अनुरागेण प्रणम्य,
देवकार्यं इन्द्रादिप्रयोजनं, निवेद्य विज्ञाप्य, तेन 'सनत्कुमारेण पाकशासनमिन्द्रं-
"
"
'आवेद्य' - इति मूलपाठ: । 'निवेद्य' - इति व्याख्यापाठः ।
-
a,
-
1. निशाम्य दृष्टा, निशम्य श्रुत्वा इत्यर्थमेद: दीर्घहस्त्रमेदात् कविसंप्रदाय
सिद्धः । 'शमो दर्शने' 'यमोऽपरिवेषणे' 'स्कदिरत्रपरिभ्यां च' - इति घटाद्यन्तर्गणसूत्रलयं
'न कम्यमिचमाम्' – इति पूर्वसूवात् नेत्यनुवर्त्य 'शाम्यतिदर्शने मिन्न स्यात्' – इत्येवमादि
व्याख्यौ माधवः । स्वामी तु नञमननुवर्त्य 'शमोऽदर्शने' - इत्यकार प्रश्लेषेण
व्याख्याति स्म। सूत्रद्वये उदाहरणप्रत्युदाहरणयोः व्यत्यासरूप फलमेदे प्रथमसूत्रे माधव-
स्वामिनोनर्थिमेदः फलमेदश्च ॥ माधवमतं च वृत्तिकृन्यासकृत्सम्मतमिति भावः ॥
2. पर मे स्थाने सत्यलोकाख्ये तिष्ठति परमेष्ठी तम् ॥ सनत्कुमारोऽपि परमे
आनन्दमयकोशादप्युपरि सच्चिदानन्दघने निर्गुणपरमात्मनि तिष्ठतीति विष्टमिदं पदम् ॥
3. 'तेन अनुज्ञाप्य' – 'स: इन्द्रमनुजानाति, तेन गुरु: इन्द्रमनुज्ञापयति'.
अणौ कर्तुः णौ न कर्मत्वं, अपि तु प्रयोज्यकर्तृत्वमेवेति तृतीया ॥ 'गतिबुद्धिप्रत्यवसानार्थ-
(पा. सू. 14.52 ) इत्यत्रानन्तर्भावात् अनुजानाते: 'चैत्र: मैत्रेण तण्डुलं पाचयति' इति-
11
• इति