2023-07-26 05:19:00 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  द्वितीयाश्वासः
  
  
  
   
  
  
  
  शंसन्तश्च
  
  
  
   
  
  
  
  ब्रह्मपुत्रं भगवन्तं तमङ्गिरसं, प्रशंसन्तश्च गूढचर्यारतं महर्षिषिं संवर्त -
  
  
  
  शिवाचार्ययं मरुत्तानुग्रहवाराणसीनिषेवणवताद्युपाख्यानेन,
  
  
  
   संवर्तानुजमाङ्गिरसं सर्वतन्त्रेषु प्रवचनपारदर्शनप्रबन्धनिर्माणप्रतिभाव्यव-
  
  
  
  हारकौशलैः, परिहरन्तश्च लोकायतिकतन्त्रतीर्थकरताप्रयुक्तमपकर्षमपि
  
  
  
   बाह्य तन्त्रप्रवर्तक परमेश्वरनिदर्शनोपदर्शनेन, समागम्य यथाविधि सन्नताश्च
  
  
  
   स्वगुराविव सह शिष्यैस्सुराचार्ययं सनत्कुमारसमीपमानिन्यिरे ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  महर्षिं संवर्तशिवाचार्ययं, बृहस्पतेर्ज्येष्ठ भ्रातरम् । तदुक्तम् आश्रय माहात्म्यपद्धतौ -
  
  
  
  - 'द्वावेतावति विख्यातौ सुतावङ्गिरसो मुनेः । श्लाघ्यावाश्रयतो जीवसंवर्तशिवसंज्ञकौ ॥
  
  
  
  ’ भारते आदिपर्वणि चैतयोरग्रजानुजभावो वर्णितः । मरुत्तो नाम वेदप्रतिपाद्यः कश्चन
  
  
  
   राजा, तस्मिन्ननुग्रह:हः याजनलक्षणः, वाराणस्या:याः काश्याः, निषेवणं, काशीवास इति
  
  
  
   यावत् । तदेव व्रतं नियमः, एतदादीनां अन्येषां महिम्नां, उपाख्यानेन कथनेन,
  
  
  
   प्रशंसन्तः स्तुवन्तः । संवर्तस्य संवर्त शिवाचार्यस्य, अनुजम् अवरजम्, आङ्गिरसं बृहस्पतिं
  
  
  
   च, सर्वतन्त्रेषु निखिलसिद्धान्तेषु । 'तन्त्ररं प्रधाने सिद्धान्ते' इत्यमरः । प्रवचनं
  
  
  
   अध्यापनं, तच्च, पारदर्शननं अन्तावलोकनं, तच्च, प्रबन्धानां ग्रन्थानां, निर्माणं
  
  
  
   निर्मितिः, प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा, व्यवहारः विजिगीषुकथा, तत्र कौशलं
  
  
  
   चातुर्ययं चेत्येतैः प्रशंसन्तः । बाह्यानि यानि तन्त्राणि अवैदिकसिद्धान्ताः तेषां
  
  
  
  प्रवर्तक: प्रवर्तकः प्रवक्ता परमेश्वरः शिवो विष्णुर्ब्रह्मा । तथोक्तं पुराणेषु –-- 'पाञ्चरात्रं पाशुपत
  
  
  
  तं तथा वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्' इत्यादि ।
  
  
  
   परमेश्वर एव निदर्शनं दृष्टान्तः, तस्य उपदर्शनेन प्रदर्शनेन, लोकायतिकानां
  
  
  
   नास्तिकानां, तन्त्ररं सिद्धान्तः, तत्प्रतिपादकम् । यद्वा तन्त्ररं प्रधानं मुख्यं,
  
  
  
   तीर्थथं शास्त्रम् । 'तीर्थं शास्त्राध्वर क्षेत्रोप/यनारीरजस्सु च' इति हेमचन्द्रः ।
  
  
  
   'जैना माध्यमिका लोकायतिका नास्तिकास्समाः' इत्यजयः । 'तन्त्ररं प्रधाने
  
  
  
   सिद्धान्ते' इत्यमरः । तस्य, करर्ता प्रणेतृत्वं, तत्प्रयुक्तं तदुत्पन्नं, अपकर्ष
  
  
  
  षं
  
  
  
  न्यूनभावमपि, परिहरन्तः वारयन्तस्सन्तः, समागम्य संप्राप्य, यथाविधि
  
  
  
   विधिमनतिक्रम्य स्वगुरौ सनत्कुमार इव सन्नताः प्रणताश्च सन्तः शिष्यैस्सह
  
  
  
   सनत्कुमारस्य समीपं अन्तिकं आनिन्थियिरे गमयामासुः । सनत्कुमारसन्निधौ
  
  
  
   बृहस्पतये सञ्जातसम्माननसभाजनादिकं दृष्ट्वा तस्मिन् देवा अतीव नम्रा बभूवुरि-
  
  
  
  त्याह ॥ सनदिति ॥ गुरोः बृहस्पतेः समागमे समागमने, वृत्ता:ताः विविधाः