2023-06-05 16:39:58 by ambuda-bot
This page has not been fully proofread.
द्वितीयाश्वासः
शंसन्तश्च
ब्रह्मपुत्रं भगवन्तं तमङ्गिरसं, प्रशंसन्तश्च गूढचर्यारतं महर्षि संवर्त -
शिवाचार्य मरुत्तानुग्रहवाराणसीनिषेवणवताद्युपाख्यानेन,
संवर्तानुजमाङ्गिरसं सर्वतन्त्रेषु प्रवचनपारदर्शनप्रबन्धनिर्माणप्रतिभाव्यव-
हारकौशलैः, परिहरन्तश्च लोकायतिकतन्त्रतीर्थकरताप्रयुक्तमपकर्षमपि
बाह्य तन्त्रप्रवर्तक परमेश्वरनिदर्शनोपदर्शनेन, समागम्य यथाविधि सन्नताश्च
स्वगुराविव सह शिष्यैस्सुराचार्य सनत्कुमारसमीपमानिन्यिरे ।
महर्षिं संवर्तशिवाचार्य, बृहस्पतेर्ज्येष्ठ भ्रातरम् । तदुक्तम् आश्रय माहात्म्यपद्धतौ-
'द्वावेतावति विख्यातौ सुतावङ्गिरसो मुनेः । श्लाघ्यावाश्रयतो जीवसंवर्तशिवसंज्ञकौ ॥
भारते आदिपर्वणि चैतयोरग्रजानुजभावो वर्णितः । मरुत्तो नाम वेदप्रतिपाद्यः कश्चन
राजा, तस्मिन्ननुग्रह: याजनलक्षणः, वाराणस्या: काश्याः, निषेवणं, काशीवास इति
यावत् । तदेव व्रतं नियमः, एतदादीनां अन्येषां महिम्नां, उपाख्यानेन कथनेन,
प्रशंसन्तः स्तुवन्तः। संवर्तस्य संवर्त शिवाचार्यस्य, अनुजम् अवरजम्, आङ्गिरसं बृहस्पतिं
च, सर्वतन्त्रेषु निखिलसिद्धान्तेषु । 'तन्त्र प्रधाने सिद्धान्ते' इत्यमरः । प्रवचनं
अध्यापनं, तच्च, पारदर्शन अन्तावलोकनं, तच्च, प्रबन्धानां ग्रन्थानां, निर्माणं
निर्मितिः, प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा, व्यवहारः विजिगीषुकथा, तत्र कौशलं
चातुर्य चेत्येतैः प्रशंसन्तः । बाह्यानि यानि तन्त्राणि अवैदिकसिद्धान्ताः तेषां
प्रवर्तक: प्रवक्ता परमेश्वरः शिवो विष्णुर्ब्रह्मा । तथोक्तं पुराणेषु – 'पाञ्चरात्रं पाशुपत
तथा वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्' इत्यादि ।
परमेश्वर एव निदर्शनं दृष्टान्तः तस्य उपदर्शनेन प्रदर्शनेन, लोकायतिकानां
नास्तिकानां, तन्त्र सिद्धान्तः, तत्प्रतिपादकम् । यद्वा तन्त्र प्रधानं मुख्यं,
तीर्थ शास्त्रम् । 'तीर्थं शास्त्राध्वर क्षेत्रोप/यनारीरजस्सु च' इति हेमचन्द्रः ।
'जैना माध्यमिका लोकायतिका नास्तिकास्समाः' इत्यजयः । 'तन्त्र प्रधाने
सिद्धान्ते' इत्यमरः । तस्य करता प्रणेतृत्वं तत्प्रयुक्तं तदुत्पन्नं, अपकर्ष
न्यूनभावमपि, परिहरन्तः वारयन्तस्सन्तः, समागम्य संप्राप्य, यथाविधि
विधिमनतिक्रम्य स्वगुरौ सनत्कुमार इव सन्नताः प्रणताश्च सन्तः शिष्यैस्सह
सनत्कुमारस्य समीपं अन्तिकं आनिन्थिरे गमयामासुः । सनत्कुमारसन्निधौ
बृहस्पतये सञ्जातसम्माननसभाजनादिकं दृष्ट्वा तस्मिन् देवा अतीव नम्रा बभूवुरि-
त्याह ॥ सनदिति ॥ गुरोः बृहस्पतेः समागमे समागमने, वृत्ता: विविधाः