2023-09-04 09:55:27 by Bharadwajraki
This page has been fully proofread twice.
अथ सुरगुरुमागतं सशिष्यं
स्वयमवधार्य धिया सनत्कुमारः ।
अपगततमसो महाप्रभावान्
अशिषदमुष्य सभाजनाय शिष्यान् ॥ ६ ॥
प्रस्थिताश्च ते [^१]परस्परालापेषु, अथर्वशिखाप्रवर्तकतामाङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषोद्घुष्टप्रभावतामप्यनुस्मृत्य प्रशंसन्तो
[commentary]
सपद्येन गद्येन ॥ अथेति ॥ अथ ब्रह्मलोकान्तिकप्राप्त्यनन्तरं, सनत्कुमाररः ब्रह्ममानसपुत्रः, स्वयं धिया योगजबुद्ध्या, सशिष्यं शिष्येणेन्द्रेण सहितमित्यर्थः । सुराणां गुरुं बृहस्पतिम्, आगतं प्राप्तम्, अवधार्य निश्चित्य, अमुष्य गुरोः, सभाजनाय आनन्दनाय । 'आनन्दनसभाजने' इत्यमरः । सम्माननायेति यावत् । अपगतानि प्रगतानि, तमांसि अज्ञानवृत्तयो येषां ते तथाभूतान् । अत एव महान् प्रभावः प्रकृष्टचेष्टारूपः भावः । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । माहात्म्यं, येषां ते तथाविधान् शिष्यान्, अशिषत् आदिदेश ॥ प्रस्थिता इति ॥ प्रस्थिता विनिर्गताः, ते च सनत्कुमारशिष्यास्तु, परस्परं आलापेषु सम्भाषणेषु । अथर्वशिखाया एतन्नामिकायाः पञ्चरुद्रान्तःपातिन्याः कस्याश्चिदुपनिषदः, प्रवर्तकः प्रवक्ता, अध्यापक इति यावत् । तस्य भावस्तत्ता तां, अङ्गिरसा प्रणीतः आङ्गिरस इत्याख्या नाम यस्य सः, एवंविधो यो योगः योगग्रन्थः, तस्मिन् यानि रहस्यानि गूढार्थाः, तेषां प्रवर्तकः प्रकाशकः, तस्य भावस्तत्ता ताम् । एवं ऋक् च यजुश्च ऋग्यजुषे, 'ऋम्यजुषाभ्यां, उद्घुष्टः वर्णितः, प्रभावो महिमा यस्य सः तस्य भावस्तत्ता, तामपि । अनुस्मृत्य स्मारं स्मारं, चित्रशिखण्डिनं अङ्गिरसं मुनिं, ब्रह्मणः पुत्रं सुतम् । अङ्गिरसो ब्रह्मपुत्रत्वं वक्ष्यते । भगवन्तं
भूतागत्यादिज्ञानवन्तम् । तदुक्तम् -- 'उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' इति । प्रशंसन्तः स्तुवन्तस्सन्तः, गूढचर्यायाम् अलिङ्गाश्रमे, अवधूताश्रम इति यावत् । रतम् आसक्तं,
[^१] सनत्कुमारशिष्याणामालापाः बृहस्पतिमाहात्म्यावेदकाः ॥
[^२] 'अचतुर.........वृद्धोक्षाः' -- (पा. सू. ५.४.७७) इत्यादिना निपातनात् ऋग्यजुषशब्दः द्वन्द्वे अकारान्तः ॥ अजन्ततया निपातितेषु पंचविंशतिसंख्याकशब्देष्वयं विंशः शब्दः ॥
स्वयमवधार्य धिया सनत्कुमारः ।
अपगततमसो महाप्रभावान्
अशिषदमुष्य सभाजनाय शिष्यान् ॥ ६ ॥
प्रस्थिताश्च ते [^१]परस्परालापेषु, अथर्वशिखाप्रवर्तकतामाङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषोद्घुष्टप्रभावतामप्यनुस्मृत्य प्रशंसन्तो
[commentary]
सपद्येन गद्येन ॥ अथेति ॥ अथ ब्रह्मलोकान्तिकप्राप्त्यनन्तरं, सनत्कुमा