This page has not been fully proofread.

११४
 
नीलकण्ठविजये सव्याख्याने
 
अथ सुरगुरुमागतं सशिष्यं
 
स्वयमवधार्य घिया सनत्कुमारः ।
 
अपगततमसो महाप्रभावान्
 
अशिषदमुष्य सभाजनाय शिष्यान् ॥ ६ ॥
प्रस्थिताञ्च ते 'परस्परालापेषु, अथर्वशिखाप्रवर्तकतामाङ्गिरसा-
ख्ययोगरहस्यप्रवर्तकतामृग्यजुषोघुष्टप्रभावतामप्यनुस्मृत्य प्रशंसन्तो
सपद्येन गद्येन ॥ अथेति ॥ अथ ब्रह्मलोकान्तिकप्राप्त्यनन्तरं, सनत्कुमार ब्रह्म-
मानसपुत्रः, स्वयं घिया योगजबुद्धया, सशिष्यं शिष्येणेन्द्रेण सहितमित्यर्थः ।
सुराणां गुरुं बृहस्पतिम्, आगतं प्राप्तम्, अवधार्य निश्चित्य, अमुष्य गुरोः, सभाजनाय
आनन्दनाय। 'आनन्दनसभाजने' इत्यमरः । सम्माननायेति यावत् । अपग-
तानि प्रगतानि, तमांसि अज्ञानवृत्तयो येषां ते तथाभूतान् । अत एव महान्
प्रभाव: प्रकृष्टचेष्टारूप: भाव: । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः ।
माहात्म्यं, येषां ते तथाविधान् शिष्यान्, अशिषत् आदिदेश ॥ प्रस्थिता
इति ॥ प्रस्थिता विनिर्गताः, ते च सनत्कुमारशिष्यास्तु, परस्परं आलापेषु
सम्भाषणेषु । अथर्वशिखाया एतन्नामिकायाः पञ्चरुद्रान्त: पातिन्याः कस्याश्चिदुप-
निषदः, प्रवर्तकः प्रवक्ता, अध्यापक इति यावत् । तस्य भावस्तत्ता तां,
अङ्गिरसा प्रणीतः आङ्गिरस इत्याख्या नाम यस्य सः, एवंविधो यो योगः योग-
ग्रन्थ:, तस्मिन् यानि रहस्यानि गूढार्थाः, तेषां प्रवर्तकः प्रकाशकः, तस्य भाव-
स्तत्ता ताम् । एवं ऋक् च यजुश्च ऋग्यजुषे, 'ऋम्यजुषाभ्यां, उद्घुष्टः वर्णितः,
प्रभावो महिमा यस्य सः तस्य भावस्तत्ता, तामपि । अनुस्मृत्य स्मारं स्मारं, चित्रशि-
खण्डिनं अङ्गिरसं मुनिं, ब्रह्मणः पुत्रं सुतम् । अङ्गिरसो ब्रह्मपुत्रत्वं वक्ष्यते । भगवन्तं
भूतागत्यादिज्ञानवन्तम् । तदुक्तम् – 'उत्पत्तिं च विनाशं च भूतानामागतिं
गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति' इति । प्रशंसन्तः स्तुवन्त-
स्सन्तः, गूढचर्यायाम् अलिङ्गाश्रमे, अवधूताश्रम इति यावत् । रतम् आसक्तं,
 
1.
 
सनत्कुमारशिष्याणामालापा:
 
बृहस्पतिमाहात्म्यावेदकाः ॥
 
-
 
2. 'अचतुर वृद्धोक्षा : ' - (पा. सू. 5-4-77) इत्यादिना निपातनात् ऋग्-
यजुषशब्द: द्वन्द्वे अकारान्तः ॥ अजन्ततया निपातितेषु पंचविंशतिसंख्याकशब्देष्वयं
विश: शब्द: ॥
 
......