2023-09-04 09:51:12 by Bharadwajraki
This page has been fully proofread twice.
तामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्यमात्मानम् । हन्त चिरादिमान् देवपशूनद्राक्ष्म ।
किन्न निगृह्णन्ति मनः किन्न भजन्ते जनाशिवं शरणम् ।
अभिसन्धिभेदमात्रान्मोक्षो(क्षा)aपायेन बध्यन्ते ॥ ४–--५ ॥'
इत्यादीनि परिहासवचांसि पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदम्, अपत्रपानष्टदृष्टयस्स्वयमाधिपत्यादस्मदीयादत्र भिक्षाटनं ज्याय इति मेनिरे ।
[commentary]
इत्यमरः । चिरात् बहुकालात्, इमान् देवा एव पशवः, देवाः पशव इव वा, एतान् अद्राक्ष्म दृष्टवन्तः ॥ किमिति ॥ जनाः, मनः चित्तं कर्म, न निगृह्णन्ति किं, न निरुन्धन्ति किं, रुन्धन्त्येवेत्यर्थः । तथा शिवं, शरणं रक्षकं सन्तं, न भजन्ते किं, सेवन्त एवेत्यर्थः । तथापीति शेषः । अभिसन्धेः फलाकाङ्क्षायाः,
फललिप्साया इति यावत् । भेदमात्राद्भेदादेव, कामवशादेवेति यावत् । मोक्षस्य अपायः व्यतिरेकः राहित्यमिति यावत् । तेन बध्यन्ते निबध्यन्ते । तेषां कामिनामेवं दुरवस्थेति भावः । इत्यादीनि एवमादीनि, परिहाससहितानि वचांसि, सोपालम्भवचनानीति भावः । शृण्वन्तस्सन्तः ऐश्वर्ये, तरतमभावं तारतम्यं पश्यन्तः । स्वर्गस्य, आधिराज्येन आधिपत्येन यो मदः तं परित्यजन्तः, अपत्रपया लज्जया, नष्टाः दृष्टयः येषां ते तथाभूतास्सन्तः, अस्मदीयात् [^१]स्वर्गाधिपत्यात्स्व
स्वर्गसाम्राज्यात् । [^२]ल्यब्लोपे पञ्चमी । अत्र सत्यलोके, भिक्षार्थं अटनं सञ्चारः, ज्यायः श्रेय इति
मेनिरे बुबुधिरे । उत्तरोत्तरं श्रेयः के वा नाकाक्षन्त इति भावः । इदानीं ब्रह्मलोकवासिनां गुरुं प्रति अभिमुखागमनसनत्कुमारसमीपप्रापणे वर्णयितुमारभते
a. 'अपायेन' इति व्याख्यापाठः ।
[^१] 'स्वयमाधिपत्यात्' -- इति मूलपाठः, 'स्वर्गाधिपत्यात्' इति व्याख्यापाठः ।
[^२] स्वर्गसाम्राज्यं परित्यज्य सत्यलोके भिक्षाटनं ज्यायः इति ल्यब्लोपे पञ्चम्या भिक्षाटनेऽन्वयः ॥ अथवा ज्यायः इति ईयसुन्नन्तानुरोधेन अवधिपञ्चमीत्यपि साधु ॥ स्वर्गसाम्राज्यं प्रशस्तम् - तस्मादपि सत्यलोके भिक्षाटनं प्रशस्ततरम् इति ॥ 'प्रशस्यस्य श्रः' 'ज्य च' 'ज्यादादीयसः' (पा.सू. ५.३.६०, ५.३.६१, ६.४.१६०) इति सूत्रैः ज्यायश्शब्दनिष्पत्तिः ॥
किन्न निगृह्णन्ति मनः किन्न भजन्ते जनाशिवं शरणम् ।
अभिसन्धिभेदमात्रान्मोक्षो(क्षा)aपायेन बध्यन्ते ॥ ४
इत्यादीनि परिहासवचांसि पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदम्, अपत्रपानष्टदृष्टयस्स्वयमाधिपत्यादस्मदीयादत्र भिक्षाटनं ज्याय इति मेनिरे ।
[commentary]
इत्यमरः । चिरात् बहुकालात्, इमान् देवा एव पशवः, देवाः पशव इव वा, एतान् अद्राक्ष्म दृष्टवन्तः ॥ किमिति ॥ जनाः, मनः चित्तं कर्म, न निगृह्णन्ति किं, न निरुन्धन्ति किं, रुन्धन्त्येवेत्यर्थः । तथा शिवं, शरणं रक्षकं सन्तं, न भजन्ते किं, सेवन्त एवेत्यर्थः । तथापीति शेषः । अभिसन्धेः फलाकाङ्क्षायाः,
फललिप्साया इति यावत् । भेदमात्राद्भेदादेव, कामवशादेवेति यावत् । मोक्षस्य अपायः व्यतिरेकः राहित्यमिति यावत् । तेन बध्यन्ते निबध्यन्ते । तेषां कामिनामेवं दुरवस्थेति भावः । इत्यादीनि एवमादीनि, परिहाससहितानि वचांसि, सोपालम्भवचनानीति भावः । शृण्वन्तस्सन्तः ऐश्वर्ये, तरतमभावं तारतम्यं पश्यन्तः । स्वर्गस्य, आधिराज्येन आधिपत्येन यो मदः तं परित्यजन्तः, अपत्रपया लज्जया, नष्टाः दृष्टयः येषां ते तथाभूतास्सन्तः, अस्मदीयात् [^१]स्वर्गाधिपत्यात्